________________
सूत्र-९२१-९३० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४६९
सुवः ॥ ६२१॥
षडौच् प्राणिप्रसवे, इत्यस्माद् णिद् इन् प्रत्ययो भवति । आसावी, आसविष्यमाणः, जनिष्यमाण इत्यर्थः ।। ६२१ ॥
भुवो वा ॥ २२ ॥
भू सत्तायाम् , इत्यास्माद् इन् प्रत्ययो भवति, स च णिद्वा भवति । भविष्यतीति, भावी-कर्मविपाकादिः । भवी-भविष्यन् ।। ६२२ ॥
प्र-प्रतेर्या-बुधिभ्याम् ॥२३॥
प्रपूर्वात् प्रतिपूर्वाच्च यांक प्रापणे, बुधि, मनिच् ज्ञाने, इत्यस्माच्च णिद् इन् प्रत्ययो भवति । प्रयास्यतीति-प्रयायी, प्रतियास्यतीति-प्रतियायी, प्रभोत्स्यत इति प्रबोधी, प्रतिबोधी-बालादिः ॥ ६२३ ।।
प्रात् स्थः॥ २४॥
प्रपूर्वात् ष्ठां गति निवृत्ती, इत्यस्माद् णिद् इन् प्रत्ययो भवति । प्रस्थास्यते इति प्रस्थायी-गन्तुमनाः ।। ९२४ ।।
परमात् कित् ॥ ६२५॥
परमपूर्वात् तिष्ठतेः किद् इन् प्रत्ययो भवति । परमे पदे तिष्ठतीति परमेष्ठीअहंदादिः । भीरुष्ठानादित्वात् षत्वम् , सप्तम्या अलुप् च ॥ ९२५ ।।
पथि-मन्थिभ्याम् ॥ ६२६ ॥
आभ्यां किद् इन् प्रत्ययो भवति । पथे गतौ, पन्थाः-मार्गः, पन्थानौ, पन्थानः, पथिप्रियः । मन्थश् विलोडने, मन्था:-क्षुब्धः, वायुः, वज्रश्च । मन्थानौ, मन्थानः, मथिप्रियः ।। ६२६ ॥
होर्मिन् ॥ ६२७ ॥ हुंक् दातादनयोः, इत्यस्माद् मिन् प्रत्ययो भवति । होमी-ऋत्विक् , घृतं च ।९२७॥ अतभुक्षिनक् ।। १२८॥
ऋक् गतौ, इत्यस्माद् भुक्षिनक् प्रत्ययो भवति । ऋभुक्षा-इन्द्रः । ऋभुक्षाणौ, ऋभुक्षाणः॥ ६२८॥
अदेस्त्रिन ॥ ६२६ ॥ अदंक भक्षणे, इत्यस्मात् त्रिन् प्रत्ययो भवति । अत्रिः ऋषिः ॥ ९२९ ॥ पतेरत्रिन् ।। ६३०॥ पत्लु गती, इत्यस्माद् अत्रिन् प्रत्ययो भवति । पतत्री पक्षी।। ६३० ।।