________________
४६८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६१३-६२०
बृहे!ऽच्च ॥ ६१३ ॥
बृहु शब्दे, इत्यस्माद् मन् प्रत्ययो भवति, नकारस्य च अकारो भवति । ब्रह्म-परं तेजः, अध्ययनं, मोक्षः, बृहत्वादात्मा । ब्रह्मा-भगवान् ॥ ९१३ ॥
व्येग एदोती च वा ॥ ६१४॥
व्यग् संवरणे, इत्यस्माद् मन् प्रत्ययो भवति, एदोतो चान्तादेशौ वा भवतः । व्येमवस्त्रम् , व्येमा-संसारः, कुविन्दभाण्डं च । व्योम-नभः । पक्षे व्याम-न्यग्रोधाख्यं प्रमाणम् ॥९१४ ॥
स्यतेरी च वा ॥ ६१५॥ - षोंच अन्तकर्मणि, इत्यस्माद् मन् प्रत्ययो, ईकारश्चान्तादेशो वा भवति । सीमाअघाट: । पक्षे साम-प्रियवचनं, वामदेव्यादि च ।। ६१५ ।। सात्मनात्मन् वेमन-रोमन्-क्लोमन्-ललामन्-नामन्-पाप्मन-पक्ष्मन्-यक्ष्मन्निति ।।१६।
एते मन्प्रत्ययान्ता निपात्यन्ते । स्यतेस्तोऽन्तश्च । सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् , अन्तकर्म च, अतेः, दीर्घश्च, आत्मा-जीवः । वेग आत्वाभावश्च, वेम तन्तुवायोपकरणम् । रुहेलुक् च, रोम-तनूरुहम् । लत्वे लोम-तदेव । क्लमेरोच्च क्लोम-शरीरान्तरवयवः । लातेद्वित्वं च ललाम-भूषणादि । नमेरा च, नाम-संज्ञा, कीर्तिश्च । पातयतेस्तः पच, पाप्मा-पापं रक्षश्च । पञ्चेः कः षोऽन्तो नलोपश्च, पक्ष्म-अक्ष्यादिलोम । यस्यते: यक्षिणो वा, यक्ष्मा-रोगः। इतिकरणात् तोक्म-रुक्म-शुष्मादयो भवन्ति ।। ९१६ ॥
ह-जनिभ्यामिमन् ॥ ६१७ ।।
आभ्याम् इमन्प्रत्ययो भवति । हृग हरणे, हरिमा-पापविशेषः, मृत्युः, वायुश्च । जनैचि प्रादुर्भावे, जनिमा-धर्मविशेषः, संसारश्च ।। ६१७ ।।
सृ-ह-भृ-धृ-स्त-सूभ्य-ईमन् ।। ६१८ ॥
एभ्य ईमन्प्रत्ययो भवति । सृ गतौ, सरीमा-कालः । हग् हरणे, हरोमा-मातरिश्वा । टुडुभृग्क् पोषणे च, भरीमा क्षमी, राजा, कुटुम्बं च । धृग् धारणे, घरीमा-धर्मः । स्तृग्श आच्छादने, स्तरीमा-प्रावारः । पूत् प्रेरणे, सवीमा गर्भः, प्रसूतिश्च ॥६१८ ।।
गमेरिन् ॥ ६१६॥ . गम्लु गती, इत्यस्माद् इन् प्रत्ययो भवति । गमिष्यतीति गमी-जिगमिषुः ।९१९॥ आङश्च णित् ॥ ६२०॥
आङ पूर्वात् केवलाच्च गणिद् इन् प्रत्ययो भवति । आगामिष्यतीति आगामीप्रोषितादिः । गमिष्यतीति गामी प्रस्थितादिः ।। ६२० ।।