________________
सूत्र. ६०८-९१२ ]
स्वपोज्ञोणादिगणसूत्रविवरणम्
[ ४६७
ध्या-प्योधी पी च ॥६०८॥
ध्ये चिन्तयाम् , प्यैड वृद्धौ, इत्याभ्यां क्वनिप् प्रत्ययो यथासंख्यं च धी पी इत्येता. वादेशौ भवतः । ध्यायतीति, धीवा-मनीषी, निषादः, व्याधिः, मत्स्य श्च । प्यायतेः, पीवापीनः ।। ९०८ ॥
अतेध च ॥१०॥
अत सातत्यगमने, इत्यस्मात् क्वनिप् प्रत्ययो भवति, घश्चान्तादेशो भवति । अध्वा-मार्गः ।। ९०९ ।।
प्रात्सदि-रीरिणस्तोऽन्तश्च ॥ १० ॥
प्रपूर्वेभ्यः सद्यादिभ्यः क्वनिप् प्रत्ययो भवति, तोऽन्तश्च भवति । षद्लु विशरणगत्यवसादनेषु, प्रसत्त्वा मूढः, वायुश्च । प्रसत्त्वरी-माता, प्रतिपत्तिश्च । रीश् गति-रेषणयोः, प्ररीत्वा वायुः। प्ररीत्वरी-स्त्रीविशेषः । ईरिक गति-कम्पनयोः, प्रेा-सागरः, वायुश्च । प्रेत्वंगे-नगरी। इंण्क गतो, प्रेत्वरी नगरीत्याहुः ।। ६१० ॥
मन् ॥ ६११ ॥
सर्वधातुभ्यो बहुलं मन् प्रत्ययो भवति । ड्रकृग करणे, कर्म-व्यापारः । वग्ट् वरणे, वर्म-कवचम् । वृतूङ वर्तने, वत्म पन्थाः । चर भक्षणे च, चर्म-अजिनम् । भस भर्त्सनदीप्त्योः सौत्रः, भसितं तदिति, भस्म-भूतिः । जनैचि प्रादुर्भावे, जन्म-उत्पत्तिः । शृश् हिंसायाम् , शर्म-सुखम् । वसवोऽस्य दुरितं. शीर्यासुरिति वसुशर्मा, एवं हरिशर्मा। मृत् प्राणत्यागे, मर्म-जीवप्रदेशप्रचयस्थानम् , यत्र जायमाना वेदना महती जायते । नृश् नये, नर्म-परिहासकथा । श्लिषंच आलिङ्गने श्लेष्मा-कफः। ऊष रुजायाम्, ऊष्मा-तापः । टुडुभृग्क् पोषणे च, भर्म-सुवर्णम् । यांक प्रापणे, यामा-रथः। वांक् गति-गन्धनयोः, वामा-करचरण ह्रस्वः । पांक रक्षणे, पामा-कच्छूः । वृष, सेचने, वर्म-शरीरम् । षद्ल विशरणगत्यवसादनेषु, सद्म-गृहम् । विशंत् प्रवेशने, वेश्म-गृहम् । हिंट गति-वृद्धयोः, हेमसुवर्णम् । छदण अपवारणे, छद्म-माया। दीङ च क्षये, देङ पालने वा, दाम-रज्जुः, माता च । दुधांग्फ धारणे च, धाम-स्थानं, तेजश्च । ष्ठां गतिनिवृत्ती, स्थाम-बलम् । धुंग्ट अभिषवे, सोम:-यक्षः, पयः, रसः, चन्द्रमाश्च । अशौटि व्याप्तौ, अश्मा-पाषाणः । लक्षीण दर्शनाङ्कनयोः, लक्ष्म चिह्नम् । अयि गतौ अय्म-संग्रामः । तक् हसने, तक्मा-रतिः, आतपः, दीपश्च । हुंक् दानादनयोः, होम-हव्यद्रव्यम् , अग्निहोत्रशाला च । धृग् धारणे, धर्मपुण्यम् । विपूर्वात् विधर्मा अहितः, वायुः, व्यभिचारश्च । ध्यें चिन्तायाम् । ध्यामध्यानम् ।। ६११ ।।
कुष्युषि-सृपिभ्यः कित् ॥ ६१२ ॥
एभ्यः कित् मन् प्रत्ययो भवति । कुषश् निष्कर्षे, कुष्म-शल्यम् । उषू दाहे, उष्मादाहः । सृप्लगतौ, सृप्मा-सर्पः, शिशुः, यतिश्च ।। ९१२ ।।