________________
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-९०३-६०७
एते अन् प्रत्ययान्ता निपात्यन्ते । श्वयतेलुक च, श्वा-कुक्कुरः । मातरि अन्तरिक्षे श्वयति, मातरिश्वावायुः । अत्र 'तत्पुरुषे कृति' इति सप्तम्या अलुप् इकारलोपश्च पूर्ववत् । मूर्छ च, मूर्छन्त्यस्मिन्नाहताः प्राणिन इति, मूर्धा-शिरः । प्लिहे र्दीर्घश्च, प्लीहा-जठरान्तरावयवः । अरिपूर्वादमर्ण्यन्ताद् अरीन् आमयतीति, अर्यमा-सूर्यः । विश्वपूर्वात् प्सातेः कित् च, विश्वप्सा-कालः, वायुः, अग्निः, इन्द्रश्च । परिपूर्वात् ज्वलतेडिच्च परिज्वा-सूर्य, चन्द्रः, अग्निः, वायुश्च । महीयतेरीयलोपश्च महा-महत्त्वम् । अंहेर्नलोपश्च, अंहते अहः-दिवसः । मङघेर्नलोपोऽव् चान्तः मङघते इति, मघवा-इन्द्रः । नम्पूर्वात् खर्वे: खस्थश्च, न खर्वति, अर्थवा-वेद,, ऋषिश्च । इतिकरणादन्येऽपि भवन्ति ।। ९०२ ।।
पप्यशोभ्यां तन् ॥ १०३ ॥
आभ्यां तन् प्रत्ययो भवति । पप समवाये, अशोटि व्याप्तौ। सप्त, अष्ट उभेसंख्ये ॥ ९०३ ॥
स्ना-मदि-पद्यति-प-शकिभ्यो वन ॥ ९०४ ॥
एभ्यो वन् प्रत्ययो भवति । ष्णांक शौचे, स्नावाशिरा, नदी च । मदच हर्षे, मद्वादृप्तः, पानं, कान्तिः, क्रीडा, मुनिः, शिरश्च । मद्वरी-मदिरा । बाहुलकाद् डी:, वनोरश्च । पदिच् गती, पद्वा-पत्तिः, वत्सः, रथः, पादः, गतिश्च । ऋक् गतौ, अर्वा-अश्वः, अशनिः, आसनं, मुनिश्च । पृश् पालनपूरणयोः, पर्व-सन्धिः, पूरणं, पुण्यतिथिश्च · शक्लट् शक्तौ, शक्वा-वर्धकिः, समर्थः । शक्वरी-नदी, विद्युत् , छन्दोजातिः, युवतिः, सुरभिश्च । शाक्वरः-वृषः ।। ६०४ ॥
ग्रहेरा च ।। ६०५॥
ग्रहीश उपादाने, इत्यस्माद् वन् प्रत्ययो भवति । आकारश्चान्तादेशो भवति। ग्रावा-पाषाणः, पर्वतश्च ॥ ९०५ ।।
ऋ-शी-क्र शि-रुहि-जि-क्षि-ह-सू-धृ-दृभ्यः क्वनिए ।। ६०६ ॥
एभ्यः क्वनिप् प्रत्ययो भवति । ऋक् गतो, ऋत्वा ऋषिः । शोङ क स्वप्ने, शीवा-अजगरः। क्रुशं आह्वान-रोदनयोः, क्रुश्वा-सृगालः । रुहं बीजजन्मनि, रुह्वा-वृक्षः । जि अभिभवे, जित्वा-धर्मः, इन्द्रः, योद्धा च । जित्वरी-नदी, वणिजश्च, वाराणसी जित्वरीमाहुः । क्षि क्षये, क्षित्वा-वायुः, विष्णुः, मृत्युश्च । क्षित्वरी-रात्रिः । हग हरणे, हृत्वारुद्रः, मत्स्यः, वायुश्च । सृ गती, सृत्वा-कालः, अग्निः, वायुः, सर्पः, प्रजापतिः, नीचजातिश्च । सृत्वरी-वेश्यामाता। धृङत् स्थाने, धृत्वा-विष्णुः, शंलः, समुद्रश्च । धृत्वरी-भूमिः । हङत् आदरे, इत्वा-दृप्तः । पकरस्तागमार्थः ।। ९०६ ।।
सृजेः सज्-सको च ॥ ६०७ ॥
सृजंत विसर्गे, इत्यस्मात् क्वनिप् प्रत्ययो भवति । स्रज-सृक् इत्यादेशौ चास्य भवतः । स्रज्वा मालाकारः, रज्जुश्च । सृक्वणी-आस्योपान्तौ ।। ९०७ ।।