________________
सूत्र-८९५-६०२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४६५
समानशब्दः क्षत्रियः। दरदः-जनपदः । भस भर्सन:दीप्त्योः सौत्रः, भसत्-जघनम् , आस्यम् , आमाशयस्थानं च । भषेरपीच्छन्त्येके भषत् ।। ८९४ ।।
तनि-त्यजि-यजिभ्यो डद् ॥ ८६५ ॥
एभ्यो डिद् अद्प्रत्ययो भवति । तनूयी विस्तारे, तत् , सः । त्यजं हानी, त्यद, स्यः । एतौ निर्देशवाचिनौ । यजी देवपूजादौ, यद्, यः । अयमुद्देशवाची ।।८९५॥
इणस्तद् ॥ ८६६ ॥
इणं गतो, इत्यस्मात् तद् प्रत्ययो भवति । एतद्-एषः, समीपवाची शब्दः ।८९६॥ प्रः सद् ॥ ८१७॥ पृश् पालनपूरणयोः, इत्यस्मात् सद् इत्येवं प्रत्ययो भवति । पर्षत् सभा ।। ८९७।। द्रो हुस्वश्च ॥ १८॥
दृश् विदारणे, इत्यस्मात् सद् प्रत्ययो भवति । ह्रस्वश्चास्य भवति, दृषत्-पाषाणः ॥ ८९८॥
युष्यसिम्यां क्मद् ॥ ८६६ ॥
आभ्यां किद् मद् इत्ययं प्रत्ययो भवति । युषः सौत्रः सेवायाम् , युष्मद् , यूयम् । असूच क्षेपणे, अस्मद्-वयम् ॥८९९ ।।
उक्षि-तक्ष्यक्षीशि-राजि-धन्वि-पश्चि-पूषि-क्लिदि-स्निहि नु-मस्जेरन् ॥१०॥
एभ्यः अन् प्रत्ययो भवति । उक्ष सेचने उक्षा-वृषः । तक्षौ तनूकरणे, तक्षावर्धकिः। अक्षौ व्याप्तौ च. अक्षा-दृष्टिनिपातः । ईशिक ऐश्वर्य, ईशा-परमात्मा। राजग दीप्तौ, राजा-ईश्वरः । धन्विः सौत्रो गतौ, धवु गतौ वा, धन्वा-मरुः, धनुश्च । पचुङ व्यक्तीकरणे, पञ्च संख्या। पूष वृद्धी, पूषा-आदित्यः। क्लिदोच आर्द्रभावे, क्लेदा-मुखप्रसेकः, चन्द्रः, इन्द्रश्च । ष्णिहौच प्रीती। स्नेहा-स्वाङ्गम् , हृत् , वशा च गौः। णुक स्तुतौ नव-संख्या । टुमस्जोंत् शुद्धौ, मज्जा-षष्ठो धातुः ।। ६०० ॥ • लू-पू-यु-वृषि-दंशि-धु-दिवि-प्रतिदिविभ्यः कित् ॥६०१ ॥ .
एभ्यः किद् अन् प्रत्ययो भवति । लुग्श् छेदने, लुवा-दात्रं, स्थावरश्च । पूग्श पवने, पुवा-वायुः । युक् मिश्रणे, युवा-तरुणः । वृषू सेचने, वृषा-इन्द्रः, वृषभश्च । दंशं दशने, दश-संख्या । छुक् अभिगमे, धुवा-अभिगमनीयः, राजा सूर्यश्च । दिवूच् क्रीडादौ, दिवादिनम् । प्रतिपूर्वात् प्रतिदिवा-अहः अपराह्णश्च ।। ६०१॥
श्वन-मातरिश्वन-मूर्धन्-प्लीहन्नर्यमन्--विश्वप्सन परिज्वन्-महन्नहन मघवन्नर्थवनिति ॥ ६०२॥