________________
४३८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-६७१-६८०
निषजेर्षित् ॥ ६७१ ॥
निपूर्वात् षजं सङगे, इत्यस्माद् चिद् अथिः प्रत्ययो भवति । निषङ्गथिः-रुद्रः, धनुर्धरश्च । घित्करणं गत्वार्थम् ।। ६७१ ।।
उदत र्णिद् वा ॥ ६७२॥
उत्पूर्वाद् ऋक् गतौ, इत्यस्माद् अथि: प्रत्ययो भवति, स च णिद्वा भवति । उदा. रथिः-विष्णुः, उदरथिः-विप्रः, काष्ठं, समुद्रः, अनड्वांश्च ।। ६७२ ।।
अतेरिथिः ॥ ६७३ ॥
अत सातत्यगमने, इत्यस्माद् इथि: प्रत्ययो भवति । अतिथि:-पात्रतमः, भिक्षावृत्तिः ॥ ६७३॥
तनेर्डित् ॥ ६७४ ।। तनूयी विस्तारे, इत्यस्माद् डिद् इथिः प्रत्ययो भवति । तिथि:-प्रतिपदादिः । ६७४। उषेरधिः ।। ६७५॥ उषू दाहे, इत्यस्माद् अधिः प्रत्ययो भवति । औषधिः-उद्भिद्विशेषः ।। ६७५ ।। विदो रधिक ॥ ६७६ ॥ विदक् ज्ञाने, इत्यस्मात् किद् रधिः प्रत्ययो भवति । विद्रधिः- व्याधिविशेषः ।६७६। वी-यु-सु-वह्यगिभ्यो निः ॥ ६७७ ॥
एभ्यो निः प्रत्ययो भवति । वीक प्रजनादौ, वेनिः-व्याधिः, नदी च । युक् मिश्रणे, योनिः प्रजननमङ्गम् , उत्पत्तिस्थानं च । धुंन्ट् अभिषवे, सोनि:-सवनम् । वहीं प्रापणे, वह्निः-पावकः, बलीवर्दश्च । अग कुटिलायां गतौ, अग्निः-पावकः ।। ६७७ ।।
धूशाशीडो ह्रस्वश्च ।। ६७८ ॥
एभ्यो नि: प्रत्ययो भवति, ह्रस्वश्चैषां भवति । धूग्श् कम्पने, धुनिः-नदी । शोंच तक्षणे, शनिः-सौरिः । शीङ स्वप्ने, शिनिः-यादवः, वर्णश्च ।। ६७८ ।।
लू-धू-प्रच्छिभ्यः कित् ॥ ६७६ ॥
एभ्यः किद् निः प्रत्ययो भवति । लुग्श् छेदने, लूनि:-लवनः । धूग्श् कम्पने, धूनिःवायुः। प्रच्छंत् ज्ञोप्सायाम् , पृश्नि:-वर्णः, अल्पतनुः, किरणः, वर्गश्च ।। ६७९ ॥
सदि-वृत्यमि-धम्यश्यटि-कट्यवेरनिः ॥ ६८० ॥
एभ्योऽनिः प्रत्ययो भवति । षद्ल विशरणादौ, सदनिः-जलम् । वृतूड, वर्तने, वर्तनि:-पन्थाः, देशनाम च । अम गतौ, अमनि:-अग्निः । धमः सौत्रः, धमनि:-मन्या, रसवहा च शिरा । अशौटि व्याप्ती, अशनि:-इन्द्रायुधम् । अट गतौ । अटनिः- चापकोटिः । कटे वर्षावरणयोः, कटनि:-शैलमेखला । अव रक्षणादौ, अवनि:-भूः ।। ६८० ॥