________________
सूत्र-६८१-६६० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४३९
रज्जेः कित् ॥ ६८१॥ रञ्जी रागे, इत्यस्मात् किद् अनिः प्रत्ययो भवति । रजनिः-रात्रिः ।। ६८१ ।। अतरत्निः ॥ ६८२॥
ऋक् गती, इत्यस्माद् अत्निः प्रत्ययो भवति । अरलिः- बाहुमध्यम् शमः, उत्कनिष्ठश्च हस्तः ॥ ६८२॥
एघेरिनिः॥ ६८३॥ एघि वृद्धी, इत्यस्माद् इनिः प्रत्ययो भवति । एधिनिः-मेदिनी ॥ ६८३ ॥ शकेरुनिः॥ ६८४॥ शक्लृट् शक्ती, इत्यस्माद् उनिःप्रत्ययो भवति । शकुनि:-पक्षी ।। ६८४ ।। अदेमेनिः ॥ ६८५॥
अदंक भक्षणे, इत्यस्माद् मनिः प्रत्ययो भवति । अनिः-पशूनां भक्षणद्रोणी, अग्निः, जयः, हस्ती, अश्वः, तालु च ।। ६८५ ॥ . दमे भिदुम् च ॥ ६८६ ।।
दमूच् उपशमे, इत्यस्माद् दुभिः प्रत्ययो भवत्यस्य च दुमित्यादेशो भवति । दुन्दुभिः-देवतूर्यम् ।। ६८६ ।।
नी-सा-वृ-यु--बलि-दलिभ्यो मिः ॥ ६८७ ॥
एभ्यो मिः प्रत्ययो भवति । णोंग प्रापणे, नेमिः-चक्रधारा। षोंच अन्तकर्मणि, सामि-अर्धवाचि अव्ययम् । वृग्ट् वरणे, वमिः-वल्मीककृमिः। युक् मिश्रणे, योमिःशकुनिः। शृश् हिंसायाम् , शमिः-मृगः। वलि संवरणे, वल्मिः-इन्द्रः, समुद्रश्च । दल विशरणे, दल्मिः -आयुधम् , इन्द्रः, समुद्रः, शकः, विषं च ।। ६८७ ।।
अशो रश्चादिः॥ ६८८॥
अशौटि व्याप्ती, इत्यस्माद् मिः प्रत्ययो भवति, रेफश्च धातोरादिर्भवति । रश्मिःप्रग्रहः, मयूखश्च ।। ६८८॥ . . . . . ...
सतरुच्चातः ॥ ६८६ ।।
आभ्यां मिः प्रत्ययो भवति, गुणे च कृतेऽकारस्योकारो भवति । सृगतो, सूमिःस्थूणा । ऋक् गतो, ऊर्मिः-तरङ्गः ।। ६८९ ॥
कृ-भूभ्यां कित् ॥ ६६० ॥
आभ्यां किद् मिः प्रत्ययो भवति । डुकृग् करणे, कृमि:-क्षुद्रजन्तुजातिः । भू सत्तायाम् , भूमिः-वसुधा ।। ६६०॥ . . . .