SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सूत्र-६६१-६७० ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४३७ गृधेर्गम् च ॥ ६६१ ॥ धूच अभिकाङक्षायाम् , इत्यस्माद् अस्तिक् प्रत्ययो भवति, गर्म चास्यादेशो भवति । गभस्ति:-रश्मिः ॥ ६६१ ॥ वस्यर्तिभ्यामातिः ॥ ६६२ ॥ आभ्याम् आतिः प्रत्ययो भवति । वसं निवासे, वसातयः- जनपदः । ऋक गती, अराति:-रिपुः ।। ६६२ ।। अभेर्यामाभ्याम् ।। ६६३ ॥ अभिपूर्वाभ्यामाभ्याम् आतिः प्रत्ययो भवति । यांक प्रापणे, मांक माने, अभियातिः, अभिमातिश्च-शः।। ६६३ ।। यजो य च ॥ ६६४ ॥ यजी देवपूजादौ, इत्यस्माद् आतिः प्रत्ययो भवत्यस्य च यकारोऽन्तादेशो भवति । ययाति:-राजा ।। ६६४ ॥ वद्यवि-च्छदि-भूभ्योऽन्तिः ॥ ६६५॥ एभ्योऽन्तिः प्रत्ययो भवति । वद वक्तायां वाचि, वदन्तिः-कथा । अव रक्षणादिषु, अवन्तिः-राजा । अवन्तयः-जनपदः । छदण् अपवारणे, युजादिविकल्पितणिजन्तत्वादण्यन्तः, छदन्तिः-गृहाच्छादनद्रव्यम् , भू सत्तायाम् , भवन्ति:-कालः, लोकस्थितिश्च ।५६५। शकेरुन्तिः ॥ ६६६ ॥ शक्लृट् शक्ती, इत्यस्माद् उन्तिः प्रत्ययो भवति । शकुन्ति:-पक्षी ।। ६६६ ॥ नत्रो दागो डितिः ॥ ६६७ ।। नपूर्वात् डुदांग्क् दाने, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । अदितिः-देवमाता ।। ६६७ ॥ . देडः ॥ ६६८॥ देङ रक्षणे, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । दितिः-असुरमाता ॥ ६६८ ।। वीसञ्ज्यिसिभ्यस्थिक् ॥ ६६६ ।। एभ्यः थिक् प्रत्ययो भवति । वींक प्रजनादिषु, वीथिः-मार्गः। षजं सङ्गे, सक्थि:-ऊरुः, शकटाङ्गच । असूच क्षेपणे, अस्थि-पञ्चमो धातुः ।। ६६९ ॥ सारेरथिः॥ ६७०॥ सृगतो, इत्यस्माद् ण्यन्तादथिः प्रत्ययो भवति । सारथिः-यन्ता ।। ६७०॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy