________________
४३६.]
- स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र - ६५३-६६०
आभ्यां कि तिः प्रत्ययो भवति नकारश्चान्तो भवति । कुङ शब्दे, कुन्तिः- राजा, कुन्तयः - जनपदः । चिग्ट् चयने, चिन्तिः- राजा ।। ६५२ ।।
खल्यमि-रमि-वहि-वस्यर्तेरतिः ॥ ६५३ ॥
एभ्योऽतिः प्रत्ययो भवति । खल संचये च खलति :- खल्वाटः । अम् गतौ, अमतिः- चातकः, छागः, प्रावृट्, मार्गः, व्याधिः, गतिश्च । रमिं क्रीडायाम्, रमतिःक्रीडा, काम:, स्वर्गः, स्वभावश्च । वहीं प्रापणे, वहतिः- गौः, वायुः, अमात्यः, अपत्यं, कुटुम्बं च । वसं निवासे, वसतिः - निवासः, ग्रामसंनिवेशश्च । ऋक् गतौ, अरति:- वायुः, सरणम्, असुखं क्रोधः, वर्म च ।। ६५३ ।
हन्तेरह च ॥ ६५४ ॥
हन हिंसागत्योः, इत्यस्मादति: प्रत्ययो भवत्यस्य च अंह, इत्यादेशो भवति । अंहतिः - व्याधिः पन्थाः कालः, रथश्च ।। ६५४ ।।
वृगो व्रत् च ॥ ६५५ ॥
वृग्ट् वरणे, इत्यस्माद् अतिः प्रत्ययो भवत्यस्य च व्रत् इत्यादेशो भवति । व्रततिः- वल्ली ॥। ६५५ ।।
अञ्चैः क च वा ॥ ६५६ ॥
अञ्च गतौ चेत्यस्माद् अतिः प्रत्ययो भवत्यस्य च क् इत्यन्तादेशो वा भवति । अङ्कतिः- वायुः, अग्निः प्रजापतिश्च । अञ्चतिः - अग्निः ।। ६५६ ।।
:
वातेणिंद्वा ॥ ६५७ ॥
वां गतिगन्धनयो:, इत्यस्माद् अतिः प्रत्ययो भवति, स च णिद् वा भवति । वायतिः - वातः, वातिः - गन्धमिश्रपवनः ।। ६५७ ।।
योः कित् ।। ६५८ ||
युक् मिश्रणे, इत्यस्माद् अति: प्रत्ययः किद् भवति । युवतिः तरुणी ॥ ६५८ ॥ पार्वा ।। ६५६ ||
पां रक्षणे, इत्यस्माद् अतिः प्रत्ययः स च किद्वा भवति । पतिः भर्ता, पाति:भर्ता, रक्षिता, प्रभुश्च ।। ६५९ ।।
अगि विलि-पुलि-चिपेरस्तिक् ।। ६६० ॥
एभ्यः किदु अस्तिः प्रत्ययो भवति । अग कुटिलायां गतौ, अगस्तिः । विलत् वरणे, विलस्तिः । पुल महत्त्वे पुलस्तिः । क्षिपत् प्रेरणे, क्षिपस्तिः । एते लौकिका ऋषयः । अगस्तिः- वृक्षजातिश्च ।। ६६० ।।