________________
सूत्र ५६४-६०२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४२७
निपूर्वात् इंणक् गती, इत्यस्मात् शिद् ऊहः प्रत्ययो भवति । नियूहः-सौधादिकाष्ठनिर्गमः ॥ ५९३ ॥
दस्त्यूहः ॥ ५६४ ॥ ददातेः त्यूहः प्रत्ययो भवति । दात्यूहः-पक्षिविशेषः ॥ ५९४ ।। अनेरोकहः ॥ ५९५॥ अनक् प्राणने, इत्यस्मादोकहः प्रत्ययो भवति । अनोकहः-वृक्षः ।। ५६५ ।। क्लेरक्षः ॥ ५६६ । वलि संवरणे, इत्यस्माद् अक्षः प्रत्ययो भवति । वलक्षः-शुक्ल: ।। ५६६ ।। लाक्षा-द्राचामिक्षादयः॥ ५६७॥
लाक्षादयः शब्दा अक्षप्रत्ययान्ता निपात्यन्ते । लसेरा च, लाक्षा जतु । रसेर्दा च, द्राक्षा-मदीका । आङ पूर्वान्मदेरन्त्यस्वरादेलक प्रत्ययादेरित्वं च । आमिक्षा-हविविशेषः । आदिग्रहणात् चुप मन्दायां गतौ इत्यस्य चोक्षः-ग्रामरागः, शुद्धं च । एवं पीयूक्षादयोऽपि भवन्ति ।। ५९७ ॥
समिण-निकषिभ्यामाः ॥ ५६८ ।।
सम्पूर्वादिण्क् गतौ, इत्यस्माद् निपूर्वात् कष हिंसायाम् । इत्यस्माच्च आः प्रत्ययो भवति । समया पर्वतम् , निकषा पर्वतम् । समीप-असूयावाचिनावेतौ ।। ५९८ ।।
दिवि-पुरि-वृषि-मृषिभ्यः कित् ॥ ५६६ ॥ ..
एभ्यः किद् आः प्रत्ययो भवति । दिवूच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति गतिषु, दिवा-अहः । पुरत् अग्रगमने, पुरा-भूतकालवाची। वृषू सेचने, वृषा-प्रबलमित्यर्थः । मृषीच तितिक्षायाम्, मृषा-अभूतमित्यर्थः ।। ५९९ ॥
वेः साहाभ्याम् ॥ ६००॥
विपूर्वाभ्यां षोंच अन्तकर्मणि, ओहां त्यागे, इत्येताभ्याम् आः प्रत्ययो भवति । विसाः-चन्द्रमाः, बुद्धिश्च । तालव्यान्तोऽयमित्येके विहा:-विहगः, स्वर्गश्च ।। ६०० ।।
वृ-मिथि-दिशिभ्यस्थ-य-व्याश्चान्ताः ॥ ६०१॥
एभ्यः किद् आः प्रत्ययो भवति । यथासंख्यं यकार-यकार-ट्यकाराश्चान्ता भवन्ति । वृग्ट वरणे, वृथा-अनर्थकम् । मिश्रृग् मेघा-हिंसयोः, मिथ्या-मृषा, निष्फलं च । दिशीत् अतिसर्जनेः दिष्टया-प्रीतिवचनम् ।। ६०१ ।।
मुचि-स्वदेध च ॥ ६०२॥
आभ्यां किद् आः प्रत्ययो भवति, धकारश्चान्तस्य भवति । मुच्लुती मोक्षणे, मुधाअनिमित्तम् । ष्वदि आस्वादने, स्वधा-पितृबलिः ॥ ६०२॥