________________
४२८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-६०३-६०७
सोबंग आह च ॥ ६०३ ॥ सुपूर्वात् ब्र तेः आः प्रत्ययो भवत्यस्य चाहादेशो भवति । स्वाहा-देवतातर्पणम् ।६०३। सनि-क्षमि-दुषेः ॥ ६०४॥
एभ्यो धातुभ्य आः प्रत्ययो भवति । षणूयी दाने, सना-नित्यम् । क्षमौषि सहने, क्षमा-भूः, क्षान्तिश्च । दुषंच वैकृत्ये, दोषा-रात्रिः ।। ६०४ ।।
डित् ॥ ६०५ ॥
धातोर्बहुलम् आ: प्रत्ययो भवति, स च डिद् भवति । मनिच ज्ञाने, मा-निषेधे । षोंच अन्तकर्मणि, सा-अवसानम। अनक प्राणने, आ-स्मरणादौ। प्रीडच प्रीतो, प्रा स्मयने । हनक हिंसागत्योः, हा-विषादे । वन भक्तौ, वा-विकल्पे । रांक दाने, रा-दीप्तिः। भांक दीप्तौ, भा-कान्तिः सह पूर्वः सभा-परिषत् । नाम्नीति सहस्य सः ।। ६०५ ।।
स्वरेभ्य इः ॥ ६०६ ॥
स्वरान्तेभ्यो धातुभ्य इ. प्रत्ययो भवति । जि अभिभवे, जयि:-राजा । हिंट गतिवृद्ध्योः , हयि:-कामः । रुक् शब्दे, रविः-सूर्यः। कुक शब्दे, कवि:-काव्यकर्ता। ष्टुंग्क् स्तुतौ, स्तविः-उद्गाता । लूगश् छेदने, लविः-दात्रम् । पूग्श् पवने, पविः-वायुः, वज्र, पवित्रं च । भू सत्तायाम् , भविः-सत्ता, चन्द्रः, विधिश्च । ऋक् गतौ, अरि:-शत्र: । हृग हरणे, हरिः-इन्द्रः, विष्णुः, चन्दनम् , मर्कटादिश्च । हरय:-शाश्वाः । टुडुभृगक पोषणे च, भरिः- वसुधा । सृगतो, सरि:-मेघः। पशु पालनपूरणयोः, परि:-भूमिः । त प्लवनतरणयोः, तरि:-नौः । दश विदारणे, दरिः-महाभिदा । मृश् हिंसायाम् , ण्यन्तः, मारिःअशिवम् । वृग्श् वरणे, वरिः-विष्णुः । ण्यन्ताद् वारिः-हस्तिबन्धनम् , वारि-जलम् ।६०६।
पदि-पठि-पचि-स्थलि-हलि-कलि-चलि-बलि-वल्लि-पल्लि-कटि-चटि-वटि-बधिगाध्यचि-बन्दि-नन्धवि-वशि-वाशि--काशि-छर्दि--तन्त्रि-मन्त्रि-खण्डि-मण्डि-चण्डियत्यञ्जि-मस्यसि-वनि-ध्वनि-सनि-गमि-तमि-ग्रन्थि-श्रन्थि-जनि-मण्यादिभ्यः ॥६०७॥
एभ्यः इ: प्रत्ययो भवति । पदिच् गतौ, पदिः-राशिः, मोक्षमार्गश्च । पठ व्यक्तायां वाचि, पठिः-विद्वान् । डुपची पाके, पचिः-अग्निः। ष्ठल स्थाने, स्थलि:-दानशाला। हल विलेखने, हलि:-हलः । कलि शब्द-संख्यानयोः, कलि:-कलहः, युगं च । बल प्राणनधान्यावरोधयोः, बलि:-देवतोपहार: दानवश्च । वलि-वल्लि संवरणे, वलिः-त्वक्तरङ्गः। वल्लि:-हिरण्य शलाका, लता च । पल्ल गतौ, पल्लि:-मुनीनामाश्रमः, व्याधसंस्त्यायश्च । कटे वर्षावरणयोः, कटिः-स्वाङ्गम् । चटण भेदे, चटि:-वर्णः। वट वेष्टने, वटि:-गुलिका, तन्तुः सूना च, नाभिः. वर्णश्च । बधि बन्धने, बधिः-क्रियाशब्दः । गाधङ प्रतिष्टालिप्साग्रन्थेषु, गाधि:-विश्वामित्रपिता । अर्च पूजायाम , अचिः-अग्निशिखा। वङ स्तुत्यभि. वादनयोः, वन्दिः-ग्रहणिः । टुनदु समृद्धौ, नन्दि: ईश्वरप्रतीहारः, भेरिश्च । अव रक्षणादौ, अविः-ऊर्णायुः । वशक् कान्तौ, वशिः-वशिता । वाशिच् शब्दे, वाशि:-प्रकान्तिः, रश्मि: