________________
४२६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-५८४-५९३
कलि-कुलिभ्यां मासक् ॥ ५८४ ॥
आभ्यां किद् मासः प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कल्मासं-शबलम् । कुल बन्धु-संस्त्यानयोः, कुल्मासः-अर्धस्विन्नं माषादि ।। ५८४ ।।
अलेरम्बुसः॥ ५८५॥
अली भूषणादौ, इत्यस्माद् अम्बुसः प्रत्ययो भवति । अलम्बुसः-यातुधानः, अलम्बुसा नाम औषधिः ॥ ५८५ ॥
लूगो हः ॥ ५८६ ॥ लुनातेर्हः प्रत्ययो भवति । लोह-सुवर्णादि ।। ५८६ ॥ कितो गे च ॥ ५८७॥
कित् निवासे, इत्यस्मात् हः प्रत्ययो भवत्यस्य च गे इत्यादेशो भवति । गेहंगृहम् ॥ ५८७॥
हिंसेः सिम् च ॥ ५८८॥
हिसुप हिंसायाम् , इत्यस्माद् हः प्रत्ययो भवत्यस्य च सिमित्यादेशो भवति । सिंहः-मृगराजः ।। ५८८ ॥
कु-प-कटि-पटि-मटि-लटि-ललि-पलि-कल्यनि-रगि-लगेरहः ॥ ५८६ ॥
एभ्यः अहः प्रत्ययो भवति । कृत् विक्षेपे, करहः-धान्यावपनम् । पृश् पालनपूरणयोः, परहः-शंकरः । कटे वर्षावरणयोः, कटहः-पर्जन्यः, कर्णवच्च कालायसभाजनम् । पट गतो, पटहः-वाद्यविशेषः । मट सादे सौत्रः, मटहः-ह्रस्वः। लट बाल्ये, लटति-विलसति, लटहः-विलासवान् । ललिण् ईप्सायाम् , ललहः-लोलावान् । पल गतौ, पलहःआवापः । कलि शब्दसंख्यानयोः, कलहः-युद्धम् । अनक प्राणने, अनहः-नीरोगः । रगे शङ्कायाम् , रगहः-नटः । लगे सङगे, लगहः-मन्दः ॥ ५८९ ।।
पुलेः कित् ॥ ५९॥ पुल महत्त्वे, इत्यस्मात् किद् अहः प्रत्ययो भवति । पुलहः-प्रजापतिः ।। ५६० ॥ वृ-कटि-शमिभ्य आहः॥ ५६१ ॥
एम्य आहः प्रत्ययो भवति । वृग्ट् वरणे, वराहः-सूकरः । कटे वर्षावरणयोः, कटाहः-कर्णवत् कालायसभाजनम् । समूच उपशमे, शमाहः-आश्रमः ।। ५९१ ।।
विले. कित् ॥ ५९२ ॥ विलत् वरणे, इत्यस्मात् किद् आहः प्रत्ययो भवति । विलाहः-रहः ।। ५६२ ।। निर इण ऊहश् ।। ५६३ ॥