________________
सूत्र-५७३-५८३ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४२५
फनस-तामरसादयः॥ ५७३ ।।
फनासादयः शब्दा असप्रत्ययान्ता निपात्यन्ते । फण गती नश्च, फनसः पनसः । तमेररोऽन्तो वृद्धिश्च, तामरसं-पद्मम् । आदिग्रहणात् कीकस-बुक्कसादयो भवन्ति ।।५७३।।
यु-बलिभ्यामासः ॥ ५७४ ।।
आभ्याम् आसः प्रत्ययो भवति । युक् मिश्रणे, यवासः-दुरालभा । बल प्राणनधान्यावरोधयोः, बलास:-श्लेष्मा ।। ५७४ ।। .
किलेः कित् ॥ ५७५ ॥
किलत् श्वैत्य-क्रीडनयोः, इत्यस्मात् किद् आसः प्रत्ययो भवति । किलासं-सिध्मम् , किलासी-पाक-कर्परम् ।। ५७५ ।।
तलि-कसिभ्यामीसण ॥ ५७६ ॥
आभ्याम् ईसण् प्रत्ययो भवति । तलण् प्रतिष्ठायाम् , तालीसं-गन्धद्रव्यम् । कस गतो, कासोसं-घातुजमौषधम् ॥ ५७६ ॥
सेर्डित् ॥ ५७७ ॥ पिंग्ट् बन्धने, इत्यस्मात् डिद् ईसण् प्रत्ययो भवति । सीसं-लौहजातिः ।। ५७७ ।। त्रपेरुसः॥ ५७८॥..
त्रपौषि लज्जायाम् , इत्यस्माद् उसः प्रत्ययो भवति । त्रपुसं-कर्कटिका। विधानसामर्थ्यात् षत्वाभावः ॥ ५७८ ।।
पटि-वीभ्यां-टिस-डिसौ ॥ ५७६ ॥
आभ्यां यथासंख्यं टिसो डिद् इसश्च प्रत्ययो भवति । पट गतौ, पट्टिस:-आयुधविशेषः । वींक प्रजनादौ, बिसं मृणालम् ॥५७६ ।।
तसः॥ ५८०॥ पटि वीभ्यां तस: प्रत्ययो भवति । पट्टसः-त्रिशूलम् । वेतसः वानीरः ।। ५८० ।। इणः॥ ५८१॥ एतेस्तसः प्रत्ययो भवति । एतसः-अध्वर्युः ।। ५८१॥ पीङो नसक् ॥ ५८२॥ पीङ च् पाने, इत्यस्मात् किन्नसः प्रत्ययो भवति । पीनसः-श्लेष्मा ।। ५८२ ।। कृ-कुरिभ्यां पासः ॥ ५८३ ॥
आभ्यां पासः प्रत्ययो भवति । डुकृग् करणे, कर्पासः-पिचुप्रकृतिः, वीरुच्च । कुरत् शब्दे, कूर्पास:-कञ्चुक: ।। ५८३ ॥