________________
सूत्र--४८४-४८६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४१३
स्थण्डिल-कपिल-विचकिलादयः ॥ ४८४ ॥
स्थण्डिलादयः शब्दा इलत्ययान्ता निपात्यन्ते । स्थलेः स्थण्ड च, स्थण्डिलं-वतिशयनवेदिका । कबेः प् च, कपिलः- वर्णः, ऋषिश्च । विचेरकोऽन्तश्च, विचकिलः- मल्लिकाविशेषः । आदिग्रहणाद् गोभिलनिकुम्भिलादयोऽपि भवन्ति ।। ४८४ ।।
हृषि-वृति-चटि-पटि-शकि-शति-तण्डि-मड़-ग्युत्कण्ठिभ्य उलः ॥ ४८५॥
एभ्य उल: प्रत्ययो भवति । हृषच तुष्टौ, हृष्ट अलीके. वा, हर्षुल:-हर्षवान् , कामी, मृगश्च । वृतूङ, वर्तने, वर्तुल:-वृत्तः । चटण भेदे, चटुलः-चञ्चलः । पट गतो, पटुल:-वाग्मी । शक्लृट् शक्ती, शकुलः-मत्स्यः। शङ कु शङ्कायाम् , शङकुला-क्रीडनशङ कु, बन्धनभाण्डम् , आयुधं च । तडुङ ताडने, तण्डुलो निस्तुषो व्रीह्यादिः । मगु गतो, मङ गुलं-न्यायापेतम् कठुङ शोके, उत्पूर्वः उत्कण्टुल:-उत्कण्ठावान् ।। ४८५ ।।
स्था-बङ्कि-हि-बिन्दिभ्यः किम्मलुक च ॥ ४८६ ॥
एभ्यः किद् उल: प्रत्ययो नकारस्य च लुग् भवति । ष्टां गतिनिवृत्ती, स्थुलंपटकुटीविशेषः । वकुङ कौटिल्ये, वकुल:-केसरः, ऋषिश्च । बहुङ वृद्धौ, बहुलं-प्रचुरम्बहुल:-प्रासकः, कृष्णपक्षश्च । बहुला:-कृत्तिकाः, बहुला-गौः। विदु अवयवे, विदुल:वेतसः ।। ४८६ ।। कुमुल-तुमुल-निचुल-वजुल-मञ्जुल-पृथुल-विशंस्थु-लागुल-मुकुल-शष्कुलादयः
॥ ४८७॥ एते उलप्रत्ययान्ता निपात्यन्ते । कमितम्योरत उच्च, कुमुलं-कुसुमम् , हिरण्यं च, कुमुल:-शिशुः, कान्तश्च । तुमुलं-व्यामिश्रयुद्धम् , संकुलं च । निजेः किच्चश्च । निचुल:वञ्जल: । वजेः स्वरान्नोऽन्तश्च, वजल:-निचलः। मञ्जिः सौत्रः, मजलं मनोज्ञम् । प्रथेः पृथ् च, पृथुल:-विस्तीर्णः । विपूर्वात् शसेस्थोऽन्तश्च, विशंस्थुल: व्यग्रः । अजेर्गश्च अङ गुलम् अष्टयवप्रमाणम् । मुचेः कित् कश्च, मुकुलः-अविकसितपुष्पम् । शके: स्वरात् षोऽन्तश्च, शष्कुली-भक्ष्यविशेषः, कर्णावयवश्च । आदिग्रहणाल्लकुल-वल्गुलादयो भवन्ति ।। ४८७ ।।
पिञ्जि-मञ्जि-कण्डि-गण्डि-बलि-वधि-वश्चिभ्य ऊलः ॥ ४८८ ॥
एभ्यः ऊल: प्रत्ययो भवति । पिजुण हिंसाबल-दान-निकेतनेषु, पिञ्जूलः हस्तिबन्धनपाशः, राशिः, कुलपतिश्च । मञ्जिः सौत्रः, मजूला मृदुभाषिणी । कडुङ. मदे, कण्डूल:-अशिष्टो जनः । गडु वदनैकदेशे, गण्डूल:-कृमिजातिः । बल प्राणन-धान्यावरोघयोः, बलूल:-ऋषिः, मेघः, मासश्च । बधि बन्धने, बधूलः हस्ती, घातकः रसायनं, तन्त्रकारश्च । वञ्चिण् प्रलम्भने, वञ्चूलः हस्ती, मत्स्यमारपक्षी च । ४८८ ।।
तमेवोऽन्तो दीर्घस्तु वा ॥ ४८६ ।