SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४१४ ] स्वोपज्ञोणादिगण सूत्र विवरणम् [ सूत्र-४९०-४९६ तमूच् काङ्क्षायाम्, इत्यस्माद् ऊलः प्रत्ययो भवति, वोऽन्तश्च भवति, दीर्घस्तु वा । ताम्बूलं, तम्बूलम् उभयं पूगपत्रचूर्णसंयोगः ।। ४८९ ।। कुल - पुल - कुसिभ्यः कित् ॥ ४६० ॥ एभ्यः प्रत्ययो भवति, स च किद् भवति । कुल बन्धु संस्त्यानयोः, कुलूलः कृमिजातिः । पुल महत्त्वे, पुलूलः - वृक्षविशेषः । कुशच् श्लेषे, कुशूल :- कोष्ठः ।। ४९० ।। दुकूल- कुकूल - बब्बूल- लाङ्गूल शार्दू लादयः ॥ ४६१ ॥ दुकूलादयः शब्दा ऊलप्रत्यान्ता निपात्यन्ते । दुक्वोः कोऽन्तश्च, दुकूलं-क्षौमं वासः । कुकूलं कारीषोऽग्निः । बधेर्बोऽन्तो बश्च । बब्बूल:- वृक्षविशेषः । लङ गेर्दीर्घश्च लाङ्गुलं वालधिः । शृणातेर्दोऽन्तो वृद्धिश्च, शार्दूलः व्याघ्रः । आदिग्रहणाद् मालः कञ्चूलादयो भवन्ति ।। ४९९ । महेरेलः || ४६२ || मह पूजायाम्, इत्यस्मादेलः प्रत्ययो भवति । महेला स्त्री ।। ४६२ ।। कटि-पटि-कण्ड-गण्डि - शकि- कपि चहिम्य ओलः ॥ ४६३ ॥ एभ्य ओल: प्रत्ययो भवति । कटे वर्षावरणयो:, कटोल:--कटविशेषः, वादित्रविशेषश्च । कटोला औषधिः । पट गतो, पटोला वल्लीविशेषः । कडु मदे. कण्डोल:विदलभाजनविशेषः । गडु वदनैकदेशे, गण्डोल: कृमिविशेषः । शक्लृट् शक्तौ शकोल:शक्तः, कपिः सौत्रः, कपोल:- गण्ड: । चह कल्कने, चहोल:- उपद्रवः ।। ४६३ ।। ग्रह्माद्भ्यः कित् ॥ ४६४ ॥ ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति । ग्रही उपादाने, गृहोल:बालिशः । कायतेः कोलः - बदरी, वराहश्च । गायतेः गोल:- वृत्ताकृतिः, गोला- गोदावरी, बालरमणकाष्ठं च । पातेः पोलाः तालाख्यं कपाटबन्धनं परिखा च । लाते: लोलः- चपलः । ददातेर्दयतेर्द्यतेर्वा दोला- प्रेङ्खणम् ॥ ४६४ ॥ पिञ्छोल- कल्लोल- कक्कोल - मक्कोलादयः ॥ ४६४ ॥ पिञ्छोलादयः शब्दा. ओलप्रत्ययान्ता निपात्यन्ते । पीडै: पिञ्छ्च् पिञ्छोल:वादित्रविशेषः । कलेर्लोऽन्तश्च कल्लोलः - ऊर्मिः । कचि मच्योः कादिः, कक्कोली लताविशेषः । मक्कोल : - सुधाविशेषः । आदिग्रहणादन्येऽपि ।। ४९५ ।। वलि - पुषेः कलक् ॥ ४६६ ॥ आभ्यां कितु कलः प्रत्ययो भवति । वलि संवरणे, वल्कलं तरुत्वक । पुष् पुष्टा, पुष्कलं समग्रं युद्धं, शोभनं हिरण्यं धान्यं च ॥ ४६६ ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy