________________
४१२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-४७७-४८३
भजेः कगौ च ॥ ४७७॥
भजी सेवायाम्, इत्यस्मात् किद् अल: प्रत्ययो भवति, कगो चान्तादेशौ भवतः। भकालं, भगालम् उभयं-कपालम् ।। ४७७ ।।
सतेंर्गोऽन्तश्च ॥ ४७८ ॥ सृ गतौ, इत्यस्मात् किद् आल: प्रत्ययो भवति, गश्चान्तः । मृगालः-क्रोष्टा ।४७८॥ पति-कृ-लूभ्यो-णित् ।। ४७६ ॥
एभ्यो णिद् अलः प्रत्ययो भवति । पत्लु गतौ, पातालं रसातलम् । डुकृग् करणे, करालं-लेपद्रव्यम् । लूग्श् छेदने, लावाल:-उद्दन्तः ।। ४७९ ।।
चात्वाल-कङ्काल-हिन्ताल-वेताल-जम्बाल-शब्दाल-ममातालादयः ॥ ४८०॥
एते आलप्रत्ययान्ता निपात्यन्ते । चतेर्वोन्तो दीर्घश्च । चात्वाल:-यज्ञगर्तः । कचेः स्वगन्नोऽन्तः कश्च, कङ्काल:-कलेवरम् । हिंसेस्तश्च हिन्ताल:-वक्षविशेषः । वियस्तोऽन्तो गणश्च, वेताल:-रजनीचरविशेषः। जनेर्वोऽन्तश्च, जम्बाल:-कर्दमः, शैवलं च । शमेऋ. बेर्वा शब्दभावश्च, शब्दाल:-शब्दनशीलः । मलेवलोपो माप्तश्चान्तः । ममाप्तालः मतिः, स्नेहः-पुत्रादिषु स्नेहबन्धनं च । आदिशब्दाच्चक्रवालकरवालालवालादयो भवन्ति । ४८०॥ कल्यनि-महि-द्रमि-जटि-भटि-कुटि-चण्डि-शण्डि-तुण्डि-पिण्डि-भू-कुकिभ्य इल:
॥ ४८१॥ एभ्य इल: प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कलिलं-गहनं, पापम् , आत्माधिष्ठितं च शक्रार्तवम । अनक प्राणने, अनिल:-वायुः । मह पूजायाम, महिला-स्त्री। द्रम गती, द्रमलाः-त्रैराज्यवासिनः । जट झट संघाते, जटिलः-जटावान् । भटभृतौ, भटिल:श्वा, सेवकश्च । कुटत् कौटिल्ये, कुटिलम्-वक्रम् । चडुङ कोपे, चण्डिल:-श्वा, क्रोधनः, नापितश्च । शडुङ रुजायाम् , शण्डिलः ऋषिः । तुडुङ तोडने. तुण्डिल:-वागजाली । पिड्रङ सङ्घाते, पिण्डिल मेघः, हिस्रः, हिमः, गणकश्च । भू सत्तायाम् , भविलः-मुनिः, समर्थः, गृहम् , बहुनेता च कुकि आदाने, कोकिलः-परभृतः ।। ४८१ ।।...
भण्डेनलुक् च वा ॥ ४८२ ॥
भडुङ परिभाषणे, इत्यस्माद् इलः प्रत्ययो भवति, नकारस्य लुग वा भवति । भडिलः ऋषिः, पिशाचः, शत्रुश्च । भण्डिल:-श्वा, दूतः, ऋषिश्च ।। ४८२ ।।
गुपि-मिथि-ध्रुभ्यः कित् ॥ ४८३ ॥
एभ्यः किद् इलः प्रत्ययो भवति । गुपौ रक्षणे, गुपिलं-गहनम् । मिथग मेधा-हिंसनयोः, मिथिला-नगरी । ध्र स्थैर्ये च, ध्र विल:-ऋषिः ।। ४८३ ॥