________________
सूत्र ४७४ -४७६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४११
मुरलोरल-विरल-केरल-कपिञ्जल-कजलेजल-कोमल-भृमल-सिंहल-काहल-शूकलपाकल-युगल-भगल-विदल-कुन्तलोत्पलादयः ॥ ४७४ ।।
एते अलप्रत्ययान्ता निपात्यन्ते । मुव्युयोर्वलोपः किच्च, मुरलाः- जनपदः । उरल:उत्कटः । विपूर्वाद्रमेडिच्च, विरल:-असंहतः। किरः केर च केरला-जनपद: । कम्पेरिजो. ऽन्तो नलोपश्च, कपिञ्जल:-गौरतित्तिरिः। कषीषो|ऽन्तोजश्च, कज्जलं मषी इज्जल:वृक्षविशेषः। कमेरत ओच्च कोमलं-मृदु । भ्रमे म् च, भृमलः वायुः, कृमिजातिश्च, भृमलं चक्रम् । हिंसेराद्यन्त विपर्ययश्च, सिंहला-जनपदः । कहीं दीर्घश्च, काहलः अध्यक्त. वाक् , काहला वाद्यविशेषः । शकेरूच्चास्य, शूकल:-अश्वाधमः। पचेः पाक् च पाकल:हस्तिज्वरः युजे: किद् ग च, युगलं-युग्मम् । भातेर्गोऽन्तो ह्रस्वश्च, भगल:-मुनिः । विन्देनलोपश्च, विदलं वेणुदलम् । कनेरत उत् तोऽन्तश्च कुन्तला-जनपदः, केशाश्च । उत्पूर्वात् पिबतेह्र स्वश्च, उत्पलं-पद्मम् । आदिग्रहणात् सुवर्चलादयो भवन्ति ।। ४७४ ।।
ऋ-कृ-मृ-वृत्तनि-तमि-चषि-चपि-कपि-कीलि-पलि-बलि-पश्चि-मङ्गि-गण्डिमण्डि-चण्डि-तण्डि-पिण्डि-नन्दि-नदि-शकिभ्य-आलः ॥ ४७५ ॥
एभ्य आल प्रत्ययो भवति ऋक् गतौ, अरालं वक्रम् । डुकृग् करणे करालम् उच्चम् । मृत् प्राणत्यागे, मरालः-हंसः, महांश्च । वृग्ट वरणे, वरालः वदान्यः । तनूयी विस्तारे, तनालं जलाशयः । तमूच् काङ्क्षायाम् तमालः-वृक्षः, व्यालश्च । चषी भक्षणे, चषालं यूपशिरसि द्रव्यम् । चप सान्त्वने, चपालं-यज्ञद्रव्यम् । कपिः सौत्रः, कपालं घटाद्यवयव:-शिरोऽस्थि च । कील बन्धे, कीलालं मद्यं, जलम् , असृक् च । पल गतौ, पलालम् । अकणो व्रीह्यादिः । बल प्राणनधान्यावरोधयोः बलालो वायूः । पचुडा व्यक्तीकरणे पञ्चालः ऋषिः, राजा च, पञ्चाला जनपदः मगु गतौ, मङ्गलः-देशः । गडु वदनैकदेशे, गण्डालः-मत्तहस्ती। मडु भूषायाम् मण्डाल. ऋषि, राजा च । चडुङ कोपे, चण्डाल:श्वपचः।
अकृतज्ञमकार्यज्ञं दीर्घरोषमनार्जवम् । ।
चतुरो विद्धि चण्डालान् जन्मना चेति पञ्चमम् ।।१।। तडुड अघाते, तण्डाल:-क्षुपः । पिडुङ, सङ्घाते, पिण्डाल:-कन्दजातिः। टुनदु समृद्धौ, नन्दालः-राजा । णद अव्यक्ते शब्दे, नन्दाल:-नादवान् । शक्लट् शक्ती, शकालाजनपदः ,मूर्खधनी च ॥
कुलि-पिलि-विशि-विडि-मणि-कुणि-पी-प्रीभ्यः कित् ॥ ४७६ ॥
एभ्यः किद् आल: प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलालः कुम्भकारः । पिलण क्षेपे, पिलालं-श्लिष्टम् । विशंत् प्रवेशने, विशालं-विस्तीर्णम् । बिड आक्रोशे, बिडाल:-मार्जारः। लत्वे बिलालः स एव । मृणत् हिंसायाम् , मृणालं-बिसम् । कुणत् शब्दोपकरणयोः, कुणालः-कृत मालः, कटविशेषश्च, कुणालं-नगरं, कठिनं च । पीङ च पाने, पियालः-वृक्षः, पियालं-शाकं, वोरुच्च । प्रीङच प्रीतौ, प्रियालः- पियालः ।। ४७६ ॥