________________
४०८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
-४५४-४६०
चि-मि-दि-शंसिभ्यः कित् ॥ ४५४ ॥
एभ्यः कित् त्रः प्रत्ययो भवति । चिन्ट् चयने चित्रम्-आश्चर्यम् , आलेख्यं, वर्णश्च । त्रिमिदांच् स्नेहने, मित्र-सुहृत् , अमित्रः- शत्रुः, मित्र:-सूर्यः । शंसू स्तुतौ च, शस्त्रं-स्तोत्रम् , आयुधं च ।। ४५४ ।।।
पुत्रादयः ॥ ४५५ ॥
पुत्र इत्यादयः शब्दाः त्रप्रत्ययान्ता निपात्यन्ते । पुनाति पवते च पितृपूतिमिति पुत्रःसुतः, यदाहुः-"पूतीति नरकस्याख्या दुःखं च नरकं विदुः।" पुन्नाम्नो नरकात् त्रायत इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं लक्षयति । आदिग्रहणादन्येऽपि ।। ४५५ ॥
वृग-नक्षि-पचि-बच्यमि-नमि-बमि-बपि-बधि-यजि-पति-कडिभ्योऽत्रः ॥४५६।
एभ्यः अत्रः प्रत्ययो भवति । वृण्ट वरणे, वरत्रा-चर्मरज्जुः । णक्ष गतौ नक्षत्रम्अश्विन्यादि । डुपचीष् पाके, पचत्रं-रन्धनस्थाली। वचंक्-भाषणे, वचत्रं वचनम् । अम गतौ, अमत्रं-भाजनम् । णमं प्रह्वत्वे, नमत्रं-कर्मारोपकरणम् । टुवम् उगिरणे, वमत्रं. प्रक्षेपः । डुवपी बीजसंताने, वपत्रं-क्षेत्रम् । बधि बन्धने, बधत्रम्-आयुधं, वस्त्रं, विष, शूरश्च । यजी देवपूजादौ, यजत्र:- यज्वा, यजत्रम्-अग्निहोत्रम् । पत्ल गतौ, पतत्रं-बहवाहनं व्योम च । कडत् मदे, कडचं दाराः, जघनं च ।। ४५६ ।।
सोविदः कित ॥ ४५७॥
सुपूर्वाद् विदः किद् अत्रः प्रत्ययो भवति । सुष्ठु वेत्ति विन्दति विद्यते वा सुविदत्रंकुटुम्ब, धनं, मङ्गलं च ॥ ४५७ ।।
कृतेः कृन्त च ॥ ४५८ ॥
कृतैच् छेदने, इत्यस्माद् अत्रः प्रत्ययो भवति । अस्य च कृन्तादेशो भवति । कृन्तत्रः-मशकः । कृन्तत्रं-छेदनं, लाङ्गलाग्रं च ।। ४५८ ।। ....बन्धि-वहि-कट्यश्यादिभ्य इत्रः ॥ ४५६ ।
एभ्यः इत्रः प्रत्ययो भवति । बन्धंश् बन्धने, बन्धित्रं-मन्थ । वहीं प्रापणे, वहिवंवाहनं च । कटे वर्षावरणयोः, कटि-लेख्यचर्म । अशौटि व्याप्तौ, अशश् भोजने वा। अशित्रं रश्मिः , हवि: अग्निः , अन्नपानं च । आदिग्रहणाद् लुनाते: लवित्रम्-कर्मद्रव्यम् , पुनातेः-पवित्रं-मङ्गल्यम् । भटतेः भटित्रं-शूले, पक्वमांसम् । कडतेः कडिनं-कटि त्रमेव । अमतेः अमित्रः-रिपुः इत्यादि ।। ४५९ ।।।
भू-ग-वदि-चरिभ्यो णित् । ४६० ॥
एभ्यो णिद् इत्र: प्रत्ययो भवति । भू सत्तायाम् , भावित्रं त्रैलोक्यं, निधानं, भद्रं च । गृत् निगरणे, गारित्रं-नभः, अन्नपानम् , आश्चर्य च । वद व्यक्तायां वाचि, वादित्रम्
चर भक्षणे। चारित्रं-वृत्तं, स्थित्यभेदश्च ।। ४६० ।।