________________
सूत्र-४६१-४६५ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४०९
तनि-तृ-ला-पात्रादिभ्य उत्रः ॥ ४६१ ॥
एभ्य उत्रःप्रत्ययो भवति । तनूयी विस्तारे, तनुत्रं-कवचम् । त प्लवनतरणयोः, तरुत्रं-प्लवः, घासहारी च । लांक आदाने, लोत्रम्-अपहृतद्रव्यम् । पां पाने, पोत्रं हलसूकरयोमुखम् । श्रङ, पालने, त्रोत्रम्-अभयक्रिया। आदिग्रहणाद् वृणोतेः वरुत्रम्-अभिप्रेत. मित्यादयः ।। ४६१ ॥
शा-मा-श्या-शक्यम्ब्यमिभ्यो लः॥ ४६२ ॥
एम्यो ल: प्रत्ययो भवति । शोंच तक्षणे, शाला-सभा। मांक माने, माला-स्रक । श्यङ गतौ, श्याल:-पत्नीभ्राता । शक्लट शक्ती, शक्ल:-मनोज्ञदर्शनः, मधुरवाक् , शक्तश्च । अम्बुङ शब्दे, अम गती अम्ब्लः , अम्लश्च--रसः ।। ४६२ ॥ . शुक-शी-मृभ्यः कित् ॥ ४६३ ॥
एभ्यः किद् लः प्रत्ययो भवति । शुक गती, शुल्कः-सितो वर्णः । शीङक् स्वप्ने, शील-स्वभावः, व्रतं, धर्मः, समाधिश्च । मुङ बन्धने मूलम्-वृक्षपादावयवः, आदिः, हेतुश्च ।। ४६३ ।।
भिल्लाच्छभल्ल-सौविदल्लादयः ॥ ४६४ ॥
भिल्लादयः शब्दाः किद् लप्रत्ययान्ता निपात्यन्ते । भिदेर्लश्च भिल्ल:- अन्त्यजाति:। अच्छपूर्वाद् भलेः, अच्छभल्लः ऋक्षः, सुपूर्वाद्विदेरलोऽन्तः सोश्च वृद्धिः । सौविदल्लः कञ्चुकी । आदिग्रहणादल्लपल्ली रल्लादयोऽपि भवन्ति ।। ४६४ ।।
मृदि-कन्दि-कुण्डि-मण्डि-मङ्गि-पटि-पाटि-शकि-केव-देवृ-कमि-यमि-शलि-कलिपलि-गुध्वश्चि-चश्चि-चपि-वहि-दिहि-कुहि-त-सृ-पिशि-तुसि-कुस्यनि-द्रमेरलः ॥४६॥
एभ्यः अलः प्रत्ययो भवति । मृदश् क्षोदे, मर्दलः-मुरजः । कटु रोदनाह्वानयोः, कन्दलः-प्ररोहः । कुडुङ दाहे, कुण्डलं-कर्णाभरणम् । मडु भूषायाम् , मण्डलं-देशः, परिवारश्च । मगु गतौ, मङ्गलं शुभम् । पट गती, पटलं-छदिः, समूहः, आवपनं, नेत्ररोगश्च । ण्यन्तात् पाटल:-वर्णः । शक्लट् शक्ती, शकलं-भित्तम असारं च, केवृङ सेवने, केवलं परिपूर्ण ज्ञानम् , असहायं च । देवृङ देवने, देवल:-ऋषिः, देवत्रातः, क्रीडनश्च । कमूङ-कान्तौ, कमलं पद्मम् । णिङि, कामलः-नेत्ररोगः । यमू उपरमे, यमलं युग्मम् । शल गतौ, शललं-सेधाङ्गरुहशडकुः । कलि शब्दसंख्यानयोः, कललं-गर्भप्रथमावस्था । पल गतौ, पललम्-भृष्ट तिलातसीचूर्णम् । गुंङ शब्दे, गवलः महिषः । धूम्श् कम्पने, धवल:श्वेतः । अञ्चू गतौ च, अञ्चल: वस्त्रान्तः । चञ्चू गतौ, चञ्चलः-अस्थिरः । चप सान्त्वने, चपलः स एव । वहीं प्रापणे, वहलं-सान्द्रम् । दिहीक लेपे, देहली-द्वाराध: पट्टः, कुहणि विस्मापने, कोहल:-भरतपुत्रः, बाहुलकाद् गुणः । त प्लवनतरणयोः, तरल:-अधीरः, हारमध्यमणिश्च । सृ गतौ, सरल:-अकुटिल:, वृक्षविशेषश्च । पिशत् अवयवे, पेशल: