________________
४०६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम् ।
४४२-४४७
अश्नोतेरीच्चादेः ॥ ४४२॥
अशौटि व्याप्ती, इत्यस्माद्वरट् प्रत्ययो भवति, ईकारश्चादेर्भवति । ईश्वरः-विभुः, ईश्वरी-स्त्री ॥ ४४२ ॥
नी-मी-कु-तु-चेर्दीर्घश्च ॥ ४४३ ॥
एभ्यो वरट् प्रत्ययो दीर्घश्चैषां भवति । णींग प्रापणे, नीवर:-पुरुषकारः । मींग्श् हिंसायाम्, मीवरः-हिंस्रः, समुद्रश्च । कुंड, शब्दे, कूवर:-रथावयवः तुक वृत्त्यादिषु, तूवरः-मन्दश्मश्रुः, अजननीकश्च । चिन्ट् चयने, चीवरं मुनिजनवासः, निःसारकथा च॥ ४४३ ॥
तीवर-धीवर-पीवर-छित्वर-छत्वर-गहरोपहर-संयद्वरोदुम्बरादयः ॥ ४४४ ॥
एते वरट् प्रत्ययान्ता निपात्यन्ते । तिभ्यतेस्ती च तीक्तेर्वाऽरे तीवरं जलं, व्यञ्जनं च । ध्यायते/ च । धीवरः, कैवर्तः, प्याय: प्यैङो वा पी च, पीवतेर्वा किदरः, पोवरःमांसलः । छिनत्तेस्तः-किच्च, छित्वरः-शठः, जर्जरः, पिटकश्च छादेणिलुकि ह्रस्वश्च, छत्वरः, निर्भर्त्सकः, निकुञ्जश्च । छत्वरं-कुड्यहीनं गृहम् , शयनप्रच्छदः, छदिश्च । गुहेरच्चोतः गह्वरं-गहनं, महाबिलं, भयानक, प्रत्यन्तदेशश्च । उपपूर्वात् ह्वो वादेलुं क च, उपह्वरं-संधिः, समीपं, रहःस्थानं च । सम्पूर्वाद्यमेर्दश्च, संयद्वरः-रणः, संयमी, नृपश्च । उन्देः किदुम् चान्तः, उदुम्बरः-वृक्षविशेषः। आदिग्रहणाद् उम्बर-शम्बरादयो भवन्ति ॥४४४ ॥
कडेरेवराङ्गरौ ।। ४४५॥ .
कडत् मदे, इत्यस्माद् एवर अङ्गर इति प्रत्ययौ भवतः । कडेवरं-मृतशरीरम् , लत्वे कलेवरम् । कडङ्गरः-वनस्पतिः ।। ४४५ ।।
त्रट् ॥ ४४६ ॥
सर्वधातुभ्यस्त्रट प्रत्ययो भवति । छादयतीति छत्रम् छत्री वा धर्मवारणम् । पातीति पात्रम् ऊजितगुणाधारः साध्वादिः। पात्री-भाजनम् । स्नायतेः-स्नानं स्नानम् । राजते इति-राष्ट्र-देशः । शिष्यतेऽनेन-शास्त्रं-ग्रन्थः । अस्च क्षेपणे, अस्त्रं-धनुः ।।४४६।।
जि-भू-सू-भ्रस्जि-गमि-नमि-नश्यशि-हनिविषेद्धिश्च ।। ४४७ ॥
एभ्यस्त्रट प्रत्ययो भवति, वृद्धिश्चैषां भवति । जि अभिभवे, जैत्र:-जयनशील:, जैत्र-छूतम् । टुडुभृग्क् पोषणे च, भात्र-पोषः, यश्च भृति गृहीत्वा वहति । सृ गतौ, सात्रःआलयः । भ्रास्जोंत् पाके, भाष्ट्रम्-अम्बरीषम् । गम्लौंगतो, गान्त्रं-मन:, शरीर, लोकश्च । णमं प्रह्वत्वे, नान्त्रं-शिरः, शाखा, वैचित्र्यं च । नशौच अदर्शने नशो धुटोति नोन्तः, नांष्ट्रायातुधानाः। अश्नोतेरश्नातेर्वा आष्ट्रम्-आकाशः, रश्मिश्च । हनक हिंसागत्योः, हान्त्रंरक्षः, युद्धं, वधश्च । विष्लुको व्याप्ती, वैष्ट्र:-विष्णु , वायुश्च । वैष्टं- यकृत् , त्रिदिवं, वेश्म च ।। ४४७॥