________________
सूत्र-४३७-४४१ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४०५
आभ्यां कित् करः प्रत्ययो भवति । पूत् प्रेरणे, सूकर:-वराहः । पुष पुष्टौ, पुष्करं, पद्म, तूर्यमूखं, हस्तिहस्ताग्रम् , आकाशं, मुरजः-तीर्थनाम च ॥ ४३६ ॥
अनि काभ्यां तरः ॥ ४३७॥
आभ्यां कित् तरः प्रत्ययो भवति । अनक प्राणने, अन्तरं-बहिर्योगोपसंव्यानयोः, छिद्रमध्यविरहविशेषेषु च । के शब्दे, कातरः-भीरुः ॥ ४३७ ।।
इण-पूभ्यां कित् ॥ ४३८ ॥
आभ्यां कित् तरः प्रत्ययो भवति । इण्क् गतो, इतर:-निर्दिष्टप्रतियोगी । पूग्श् पवने, पूतर:-जलतन्तुः ।। ४३८ ॥
मी-ज्यजि-मा-मद्यशौ-वसि किभ्यः सरः ॥ ४३६ ॥ ___एभ्यः सरः प्रत्ययो भवति । मीङच् हिंसायाम् , मेसरः-वर्णविशेषः । जि अभिभवे, जेसर:-शूरः । अज क्षेपणे च, वेसरः-अश्वतरः । वेसृ गती, इत्यस्य वा जठरेत्यादिनिपातनादरे रूपम् । मांक माने, मासरः-आयामः । मदेच् हर्षे, मत्सरः-क्रोधविशेषः । अशौटि व्याप्ती, अक्षरं वर्णः, मोक्षपदम् , आकाशं च । अक्षर्वा अरे रूपम् । वसं निवासे, वत्सरः, संवत्सरः, परिवत्सरः, अनुवत्सरः, विवत्सरः, उद्वत्सरः-वर्षाभिधानानि । इडामानेन वसन्त्यत्र कालावयवा इति इडवत्सरः, इडया मानेन वसन्त्यत्रेति इडावत्सर:-वर्षविशेषाभिधाने। परिवत्सरादीन्यपि वर्षविशेषाभिधानानीत्येके । कि इत्यदादौ स्मरन्ति केसरःसिंहसटः, पुष्पावयवः, बकुलश्च । बाहुलकान्न षत्वम् ।। ४३९ ।।
कु-धृ-तन्यषिभ्यः कित् ॥ ४४० ॥
एभ्यः कित् सरः प्रत्ययो भवति । डुकृग् करणे, कृसरः कृसरा वा विलेपिकाविशेषः वर्णविशेषश्च । धूत् विधूनने, धूसर:-भिन्नवर्णः, वायुः, धान्यविशेषश्च । तनूयी विस्तारे, तसरः-कौशेयसूत्रम् । ऋषेत् गतौ, ऋक्षर:-कण्टकः, ऋत्विक च, ऋक्षरा-तोयधारा ।४४०॥
क-ग-श-द-वृग-चति-खटि-निषदिभ्यो वरट् ।। ४४१ ॥
एभ्यष्टिद्वरः प्रत्ययो भवति । कृत् विक्षेपे, कर्बर:-व्याघ्रः, विष्किरः, अञ्जलिश्च, कर्बरी-भूमिः, शिवा च । गृत् निगरणे, गर्वरः-अहंकारः महिषश्च, गर्वरी-महिषी, संख्या च । शृश् हिंसायाम् , शर्वरः-सायाह्नः-रुद्रः, हिंस्रश्च, शर्वरं-तमः, अन्नं च, शर्वरी-रात्रिः । दृश् विदारणे, दर्वरं-वज्रम् , दर्वरी-सेवा । वृगट वरणे, वर्वर:-कामः, चन्दनं, केशविशेष:-लुब्धकश्च, वर्वरी-नदी, भार्या च । चतेग याचने, चत्वरं-चतुष्पथम् अरण्यं च । चत्वरी-रथ्या, देवता, वेदिश्च । खट काङ क्षे, खट्वरं- रससंकीर्णशाकपाकः । कटे वर्षावरणयोः, कट्वरा-व्यालाश्वः, कट्वरी-दधिविकारः । षद्ल विशरणादी, निपूर्वः, निषद्वरः- कर्दमः-वह्निः, कर्मकरः, कन्दर्पः, इन्द्रश्च । निषद्वरम्-आसनम् ,-निषद्वरी-प्रपा, रात्रिः, प्रमदा इन्द्राणी च ।। ४४१ ।।