________________
___४०० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-४०६-४१२
कासार:-पल्वलम् । मृजौक् शुद्धौ, मार्जारः बिडालः। कञ्जिः सौत्रः, कजारः कुशूलजातिः, यूपः, व्यञ्जनं च । कलि शब्दसंख्यानयोः, कलार:-विषमरूपः। मलि धारणे, मलार:-अलसः। मलमिवारा तोदोऽस्येति वा मलारः। कचि बन्धने, कचार:-अपनेयः, तृणबुसपांशुविकारः ॥ ४०५ ।।
त्रः कादिः ॥ ४०६॥ तृ प्लवनतरणयोः, इत्यस्मात् ककारादिरारः प्रत्ययो भवति । तर्कार:-वृक्षः ।४०६। कृगो मादिश्च ॥ ४०७ ॥
करोतेर्मकारादिः ककारादिश्च आरः प्रत्ययो भवति । कमरि:-लोहकारः । कर्कार:-वृक्षः ।।४०७।।
तुषि-कुठिभ्यां कित् ॥ ४०८ ॥
आभ्यां किद् आरः, प्रत्ययो भवति । तषंच तुष्टौ, तुषारः-हिमम् । कुठिः सौत्रः, कुठार:-परशुः ।। ४०८ ॥
कमेरत उच्च ॥ ४० ॥
कमूङ कान्तौ इत्यस्माद् आरः प्रत्ययो भवत्यकारस्य चोकारो भवति । कुमार:महासेनः, अभ्रष्टः, बालश्च ।। ४०९ ।।
कनेः कोविद-कर्बुद-काश्चनाश्च ॥ ४१० ॥
कनै दीप्तौ इत्यस्माद् आरः प्रत्ययो भवति, अस्य च कोविद कर्बुद काञ्चन इत्यादेशा भवन्ति । कोविदारः, कर्बुदारः, काञ्चनारेश्च वृक्षविशेषाः ।। ४१० ।।
द्वार-शृङ्गार-भृङ्गार-कहार-कान्तार-केदार-खारडादयः ॥ ४११ ॥
एते आरप्रत्ययान्ता निपात्यन्ते । उम्भत् पूरणे द्वादेशश्च, द्वारं-द्वाः । श्रयतेस्तालव्यादिः शृङ्गश्च, शृङ्गार:-रसविशेषः, विदग्धता च । भृगो भृङग् च, भृङ्गारः हस्तिमुखाकारगलन्तिका । कलेहंश्च स्वरात् परः, कहारः-उत्पलविशेषः । कमेस्तोऽन्तो दीर्घश्च कान्तारं-अरण्यम् । कदेः सौत्रस्यात एच्च, केदारः-वप्रः । खनेडिच्च, खारी- चतुर्दोणम् । खारडिति डकारो ड्यर्थः । आदिग्रहणात् शिशुमारादयो भवन्ति ।। ४११ ।। ..मदि-मन्दि-चन्दि-पदि-खदि-सहि-वहि-कु-सृभ्य इरः ॥ ४१२ ॥
एभ्य इरः प्रत्ययो भवति । मदैच् हर्षे, मदिरासुरा। मदुङ स्तुत्यादौ, मन्दिरंवेश्म, नगरं च । चदु दीप्त्याह्लादनयोः, चन्दिर:-चन्द्रमाः हस्ती च, चन्दिरं-चन्द्रिकावत्, जलं च । पदिच् गतौ, पदिर:-मार्गः । खद हिंसायाम् , खदिर:-वृक्षविशेषः । षहि मर्षणे, सहिरः-पर्वतः । वहीं प्रापणे, वहिर:-बलीवर्दः । कुंक शब्दे, कविर:-अक्षिकोणः । सृगतो, लत्वे सलिलम्-जलम् ।। ४१२॥