________________
सूत्र-४०२-४०५ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[३९९
शपी आक्रोशे, इत्यस्माद् अरः प्रत्ययो भवति । फकारश्चान्तादेशो भवति । शफरः-क्षुद्रमत्स्यः ।। ४०१॥
दमणिद्वा दश्च डः ॥ ४०२ ॥
दमूच् उपशमे, इत्यस्माद् अरः प्रत्ययो भवति, स च णिद् वा दकारस्य च डकारो भवति । डामर:-भयानकः, डमरः स एव ।। ४०२ ॥
जठर-क्रकर-मकर-शंकर-कर-कूपर-तोमर-पामर-प्रामर-प्राबर-सगर-नगर-तगरोदेरा-दर-दर-दर-कदर-कुकुन्दर-गोवेराम्बर-मुखर-खर-डहर-कुञ्जरा-जगरा-दयः ॥ ४०३॥
एते किदरप्रत्ययान्ता निपात्यन्ते । जनेष्ठ च, जठरं-कोष्ठम् । क्रमेः क च, ककरःगौरतित्तिरः । मडके लोपश्च, मकरः-ग्राहः । शंपूर्वात् किरतेर्डिच्च, शङ्करः-रुद्रः । कृपेरुपान्त्यस्य उर्च वा, कर्परं-कपालम् । कूपरं-कफोणी। ताम्यतेरत ओच्च, तोमरःआयुधम् । पातेर्मोन्तश्च, पामरः-ग्रामीणः । प्रपूर्वादमतेः प्रामरः-ग्राम्यमन्दजातिः । प्रपूर्वादत्तोऽन्तश्च प्रामर:-नरपशः । सहिनश्योग च, सगर:-द्वितीयश्चक्रवती। नगरं-पूरम। तङगेर्नलोपश्च, तगर:-वृक्ष-विशेषः । ऊर्जः पराद् दणातेडित् जलुक् च, ऊर्जा-बलेन दृणाति बिभेति । ऊर्दरः-दुर्बलः । अदु बन्धने, नलुक् च, अदरं-वक्षः, वृक्षः, संग्रामः, चञ्चुसमूहः,मातृवाहश्च । शश् हिंसायाम् । दृश् विदारणे अनयोह्र स्वत्वं दश्चान्तः, शृदरः-सर्पः । दर:भयं, विषं च । डुकृग् करणे, दोऽन्तश्च कृदर:-वृक्षः-सर्वकर्मप्रवृत्तो दस्युजन:, कुशूलश्च । कुपूर्वात् स्कुदुङ् आप्रवणे, सलोपश्च, कुकुन्दरं-श्रोणीकूपकः । गोपूर्वाद् वृगो डिद् रश्चादिः, गोर्वरः-करीषः । अमेोऽन्तश्च, अम्बरं-वस्त्रम्, आकाशं च । मुहेः ख च, मखर:वाचालः । खनेडिच्च, खरः-रासभः । दहेरादेर्डश्च, डहरं-हृत्कमलम् । कूज अव्यक्ते शब्दे, हस्वः स्वरान्नोऽन्तश्च, कुञ्जर:-हस्ती। अजेरगश्चान्तः वीभावाभावश्च । अजगर:-शयः। आदिग्रहणात् कोठराडङ्गरशाङ्गरपाण्डरवानरादयो भवन्ति ।। ४०३ ॥
मुदि-गरिभ्यां टिद्गजो चान्तौ ॥ ४०४ ॥
आभ्यां टिद् अरः प्रत्ययो भवति । गकार-जकारौ वा यथासंख्यमन्तौ भवतः। मदि हर्षे, मुद्गरः-प्रहरणविशेषः, मुद्गरी-स्त्री। गूरैचि गती, गूर्जरः-सौराष्ट्रादिः, गूर्जरी स्त्री ॥ ४०४॥
अग्यङ्गि-मदि-मन्दि-कडि-कसि-कासि-मृजि-कञ्जि-कलि-मलिकचिभ्य आरः ॥४०५॥
एभ्यः आरः प्रत्ययो भवति । अग कुटिलायां गतो, अगारं-वेश्म । अगू गतो, अङ्गार:-नितिज्वालः, निर्वाणश्चोल्मुकावयवः, भूमिसुतश्च । मदच हर्षे, मदार:-पानशौण्डः, वराहः, हस्ती, अलसश्च । मदुङ स्तुत्यादौ, मन्दारः वृक्षविशेषः । कडत् मदे, कडारः-पिङ्गलः, विषमदशनश्च । कस गतौ, कसारः-हिंस्रः । कासृङ शब्दकुत्सायाम् ,