________________
सूत्र-४१३-४१८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४०१
शव-शशेरिचातः॥ ४१३ ॥
आभ्याम् इरः प्रत्ययो भवत्यकारस्य चेकारो भवति । शव गतौ तालव्यादिः, शिबिरम्-सैन्यसंनिवेशः । शश प्लुतिगतो, शिशिरं-शोतलम् , ऋतुश्च ।। ४१३ ।।
श्रन्थेः शिथ् च ॥ ४१४ ॥
श्रथुङ, शैथिल्ये, इत्यस्माद् इरः प्रत्ययो भवत्यस्य च शिथ् इत्यादेशो भवति । शिथिरं-श्लथम् । लत्वे-शिथिलम् ।। ४१४ ।।
अशेर्णित् ॥ ४१५॥
अश्नातेरश्नोतेर्वा णिद् इरः प्रत्ययो भवति । आशिर: विष्णुः, आदित्यश्व । प्राशिरः बह्वाशी ।। ४१५ ॥ शुषीषि--बन्धि-रुधि-रुचि-मुचि-मुहि-मिहि-तिमि--मुदि-खिदि-च्छिदि-भिदि
स्थाभ्यः कित् ॥ ४१६ ॥ एभ्यः किदिर: प्रत्ययो भवति । शुषंच् शोषणे, शुषिरं-छिद्रम् । इषत् इच्छायाम् , इषिरं-तृणम् , इषिर:-अग्निः, आहारः क्षिप्रः, सेव्यश्च । बन्धंश् बन्धने, बधिरः- श्रुतिवि. कलः । रुधृपी-आवरणे, रुधिरं-द्वितीयो धातुः । रुचि अभिप्रीत्यां च, रुचिरं-दयितं, दीप्तिमच्च । मुच्लती मोक्षणे, मुचिर:-धर्मः, सूर्यः, मेघश्च । मुहौच वैचित्ये, मुहिरः कन्दर्पः, सूर्यश्च, मुहिर-तमः । मिहं सेचने, मिहिरः-मेघः सूर्यश्च, मिहिरं-तोयम् । तिमच् आर्द्रभावे, तिमिरं-तमः, तोयं, रोगश्च कश्चित् । मुदि हर्षे, मुदिर:-मेघः, सूर्यश्च । खिदंत् परिघाते, खिदिर:-त्रास: तस्करश्च । छिपी द्वधीकरणे, छिदिरः उन्दुरः, अग्निश्च, छिदिरं-शस्त्रम् । भिदृपी विदारणे, भिदिर:-अशनिः, भेदश्च । ष्ठां गतिनिवृत्तौ, स्थिरःअचलः ॥ ४१६ ।।
स्थविर-पिठिर-स्फिराजिरादयः ।। ४१७॥
एते किदिर प्रत्ययान्ता निपात्यन्ते, तिष्ठतेोऽन्तो ह्रस्वश्च । स्थविरः-वृद्धः । पचतेरत इत्वं ठश्च पिठिर-साधनभाण्डम् , पटेर्वा रूपम् । स्फायतेडिच्च, स्फिरः-स्फारो वृद्धिश्च । अजेर्वीभावाभावश्च, अजिरम्-अङ्गणम् , नगरं, देववेश्म च आदिग्रहणादन्येऽपि ॥४१७॥
क-श-प पूग-मञ्जि-कुटि-कटि-पटि-कण्डि-शोण्डि-हिंसिभ्यः ईरः॥ ४१८ ॥
एभ्य ईरः प्रत्ययो भवति । कृत् विक्षेपे, करीर:-वनस्पतिविशेषः, वंशाद्यङ कुरश्च । शश हिंसायाम , शरीरं-वपुः । पश-पालनपुरणयोः, परीरं-बलं, लाङ्गलमुखं च । पुग्श पवने, पवीरं-रङ्गस्थानं, फलं, पवित्रं-बोजावपनं च । मञ्जिः सौत्रः, मजीरं-नूपुरः । कुटत् कौटिल्ये, कुटीरम्-आलयः, कर्कटकः, चन्द्राश्रय राशिश्च, कोटीरं-मुकुटः । बाहुलकाद् गुणः। कटे वर्षावरणयोः, कटीरं-जनपदः, जघनं जलं च। पट गतो, पटीर:-कन्दर्पः,