________________
सूत्र ३८७-३८८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३६५
वचंक भाषणे, इत्यस्मादथ्यः प्रत्ययो भवत्यस्य च उद् इत्यादेशो भवति । उतथ्य:ऋषिः॥ ३८६॥
भी-वृधि-रुधि-वज्यगि-रमि-मि-वपि-जपि-शकि-स्फायि-वन्दीन्दि-पदि-मदिमन्दि-चन्दि-दसि-घसि-नसि-हस्यसि-वासि-दहि-सहिभ्यो ः ॥ ३८७ ॥
एभ्यः रः प्रत्ययो भवति । त्रिभीक् भये, भेर:-भेदः, करभः, शरः, मण्डूकः, दुन्दुभिः, कातरश्च । ऋफिडादित्वाद् लत्वे, भेलः-चिकित्साग्रन्थकारः, शरः, मण्डूकः, प्रहीणः अप्राज्ञश्च । वृधूङ वृद्धौ, वध्रः-चर्मविकारः, चन्द्रः, मेघश्च । रुधृपी आवरणे, रौध्रः-वृक्षविशेषः। वज गतौ, वज्र-कुलिशम् , रत्नविशेषश्च । अग कुटिलायां गतौ, अग्र:-प्राग्भागः, श्रेष्ठश्च । रमि क्रीडायाम् , रम्र:-कामुकः। टुवम् उगिरणे, वम्रः-धर्मविशेष:, धूमश्च, वम्री-उपदेहिका। डुवपी बीजसंताने, वप्रः-केदारः, प्राकारः, वास्तुभूमिश्च । जप मानसे च, जप्रः-ब्राह्मणः, मण्डूकश्च । शक्लृट् शक्ती, शक्रः-इन्द्रः । स्फायड वृद्धौ, स्फारम्-उल्वणं, प्रभूतं च । वदुङ स्तुत्यभिवादनयोः, वन्द्रः-वन्दी, केतुः, कामश्च, वन्द्र-समूहः । इदु परमैश्वर्ये, इन्द्रः-शक्रः । पदिच् गतौ, पद्रं-ग्रामादिनिवेशः, शून्यं च । मदैच हर्षे. मद्राजनपदः, क्षत्रियश्च मद्र-सुखम् । मदुङ स्तुत्यभिवादनयोः, मन्द्रः- मधुर: स्वरः, मन्द्रं-गभीरम् । चन्दु दीप्त्याह्लादनयोः, चन्द्रः-शशी, सुवर्ण च । दसूच उपक्षये, दस्र:शिशिरम् , चन्द्रमाः, अश्विनोयेष्टश्च, दस्रो-अश्विनौ। घस्लु अदने, घस्रः दिवसः । णसि कौटिल्ये नस्रः-नासिकापुटः, ऋषिश्च । हसे हसने, हस्रः-दिनं, घातुकः, हर्षुलश्च, हस्र-बलाघानं संनिपातश्च, सहस्र-दश शतानि । असूच क्षेपणे, अस्रम्-अश्रु । वासिच् शब्दे, वास्रः-पुरुषः, शब्द: संघातः, शरभः, रासभः पक्षी च, वास्रा-धेनुः । दहं भस्मी. करणे, दह्रः-अग्निः, शिशुः, सूर्यश्च । षहि मर्षणे, सह्नः-शैलः ।। ३८७ ।।
ऋज्यजि-तश्चि-वश्चि-रिपि-सृपि-तृपि-दृपि-चुपि-क्षिपि-क्षपि-दि-मुदिरुदि-छिदि-भिदि-खिचून्दि-दम्भि-शुम्युम्भि-दंशि-चिसि-वहि-विसि-वसि-शुचिसिधि-गृधि-चीन्धि-विति-वृति-नी-शी-सु-सभ्यः कित् ॥ ३८८ ॥
एभ्यः किद् रः प्रत्ययो भवति । ऋजि गतिस्थानार्जनोपार्जनेषु, ऋज्रः-नायकः, इन्द्रः, अर्थश्च । अज क्षेपणे च, अज्रः-वीरः, विक्रान्तः । तञ्चू वञ्चू गतौ, तक्रम् उदश्वित्, वक्र:-कुटिलः, अङ्गारकः, विष्णुश्च । उभयत्र न्यङववादित्वात् कत्वम् । रिपि: सौत्रः, रिप्रं-कुत्सितम् । सृप्लु गतौ, सुप्रः-चन्द्रः, सुप्रं-मधु, सृप्रा-नाम नदी। तृपौच
ौ, तृप्रं-मेघान्तर्धर्मः, आज्यं, काष्ठं, पापं, दुःखं वा । पोच हर्ष-मोहनयोः, प्रं-बलं, दुःखं च, प्रा-बुद्धिः । चुप मन्दायां गतो, चुप्र:-वायुः । क्षिपीत्-प्रेरणे, क्षिप्रं शीघ्रम् । क्षुपि सादने सौत्रः, क्षुप्रं-तुहिनं, कण्ट किगुल्मकश्च । क्षुदृपी संपेषे, क्षुद्रम्-अणु, जलगर्तश्च, क्षुद्रा-मधुकर्यः, क्षुद्रः हिंस्रः । मुदि हर्षे, मुद्रा-चिह्नकरणम् । रुदृक अश्रुविमोचने, रुद्रःशम्भुः । छिपी द्वेधोकरणे, छिद्रं-विवरम् । भिदृ पी विदारणे, भिद्रम्-अदृढम् , भिद्रःशरः। खिदत् परिघाते, खिद्रम्-विघ्नः । खिद्रः-विषाणम् , विषादः, चन्द्रः, दीनश्च ।