________________
३९४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-३७८-३८६
वेतेस्तादिः॥३७८ ॥
वीक प्रजनादी इत्यस्मात्तकारादिणिद् आलीयः प्रत्ययो भवति । वैतालीयंछन्दोजातिः ॥ ३७८ ।।
धाग-राजि-श-रमि-याज्यतैरन्यः ॥ ३७६ ॥
एभ्यः अन्यः प्रत्ययो भवति । डुधांगक धारणे च, धान्यं सस्यजातिः । राजग दीप्तौ, राजन्यः-ज्योतिः, अग्निः, क्षत्रियश्च । शुश् हिंसायाम् । शरण्य -त्राता । रमि क्रीडायाम्, रमण्यं-शोभनम् । यजी देवपूजादौ, योजन्य:-क्षत्रियः, यज्ञश्च । ऋक् गतौ अरण्यं-वनम् ॥ ३७६ ॥
हिरण्य-पर्जन्यादयः ॥ ३८० ॥
हिरण्यादयः शब्दा अन्यप्रत्ययान्ता निपात्यन्ते । हरतेरिच्चातः । हिरण्यं-सुवर्णादि द्रव्यम् । परिपूर्वस्य पृष् सेचने इत्यस्योपसर्गान्तलोपो धातोश्च जः समस्तादेशः, गर्जतेर्वा गकारस्य पकारः । पर्जन्यः-इन्द्रः, मेघः, शङकुः, पुण्यं, कुशलं च कर्म। आदिग्रहणादन्येऽपि ॥३८०॥
वदि-सहिभ्यामान्यः ॥ ३८१॥
आभ्याम् आन्यः प्रत्ययो भवति । वद वक्तायां वाचि, वदान्य:-दाता, गुणवान् चारुभाषी वा । षहि मर्षणे, सहान्यः-शैलः ।। ३८१ ॥
वृङ एण्यः ॥ ३८२ ॥
वृडश संभक्तो, इत्यस्माद् एण्यः प्रत्ययो भवति । वरेण्यः-परंब्रह्म, घाम, श्रेष्ठः, प्रजापतिः, अन्नं च ।। ३८२ ॥
मदेः स्यः॥ ३८३॥ मदैच् हर्षे, इत्यस्मात् स्यः प्रत्ययो भवति । मत्स्य:-मीनः, धूर्तश्च ॥ ३४३ ॥ रुचि भुजिभ्यां किम्यः ॥ ३८४ ॥
रुचि-भुजिभ्यां किद् इष्यः प्रत्ययो भवति । रुचि अभिप्रीत्यां च, रुचिष्यःवल्लभः, सुवर्णं च । भुजंप पालनाम्यवहारयोः, भुजिष्यः-आचार्यः, भोक्ता, अन्नं, मृदु, ओदनः-दासश्च, भुजिष्यं-धनम् ॥ ३८४ ॥
वच्यर्थिभ्यामुष्यः ॥ ३८५॥
आभ्याम् उष्यः प्रत्ययो भवति । वचं भाषणे, वतुष्या-वक्ता । अर्थणि उपयाचने, अयुष्यः अर्थी ॥ ३८५॥
वचोऽथ्य उत् च ॥ ३८६॥