________________
सूत्र-३६९-३७७ ]
स्वपज्ञोणादिगणसूत्रविवरणम्
[३६३
वृः शषौ चान्तौ ॥ ३६६ ।
वृङश् संभक्तौ इत्यस्मात् किद् अयः प्रत्ययो भवति, शकार षकारी चान्ती भवतः । वृशयं-देशनाम, आकाशम् आसनं शयनं च । वृषयः-आशयः ॥ ३६६ ।।
गय-हृदयादयः ॥ ३७० ॥
गय-हृदयादयः शब्दाः किदयप्रत्ययान्ता निपात्यन्ते । गमेडिच्च, गयः-प्राणः, गया तीर्थम् । हरतेर्दोऽन्तश्च, हृदयं मनः, स्तनमध्यम् चं, आदिशब्दात् गणेरेयः गणेयं गणनीय. मित्यादि ।। ३७०।।
मुचे-घय-घुयौ ॥ ३७१॥ __ मुचलती मोक्षणे, इत्यस्माद् धितो अय उय इति प्रत्ययो किती भवतः । मुकयःमुकुयश्च-अश्वतरादश्वायां जातः । घित्करणं कत्वार्थम् ।। ३७१ ।।
कुलि-लुलि-कलि-कषिभ्यः कायः॥ ३७२ ॥
एभ्यः किद् आयः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयो:-कुलाय:- नीडम् । लुलि: सौत्रं, लुलायः-महिषः । कलि शब्दसंख्यानयोः, कलायः-त्रिपुट: । कष हिंसायाम् , कषाय:-कल्कादिः ।। ३७२ ।।
श्रु-दक्षि-गृहि-स्पृहि-महेराय्यः ॥ ३७३ ॥
'एभ्य: आय्यः प्रत्ययो भवति । श्रृंट श्रवणे, श्रवाय्यः-यज्ञपशुः, ग्रहणसमर्थश्च श्रोता। दक्षि हिंसागत्योः, दक्षाय्यः-अग्नि, गृध्रः, वैनतेयः, दक्षतमश्च । गृह्नि ग्रहणे, गृहयाय्यः, वैनतेयः, गृहकर्मकुशलश्च । स्पृहण ईप्सायाम् , स्पृहयाय्य:-स्पृहयालुः, घृतं च । स्पृहयाय्याणि-तृणानि च, अहानि च । महण पूजायाम् । महयाय्यः-अश्वमेधः ।। ३७३ ।।
दधिषाय्य-दीधीषाय्यौ ॥ ३७४ ॥
एतौ आय्यप्रत्ययान्तौ निपात्येते । दधिपूर्वात् स्यतेः षत्वं च । दधिषाय्यं-पृषदाज्यम् , मृषावादी च । दिव्यतेर्दीधीष् च दीधीषाय्यं तदेव ।। ३७४ ।।
कौतेरियः ॥ ३७५॥ कुंक् शब्दे इत्यस्माद् इयः प्रत्ययो भवति । कवियं खलीनम् ।। ३७५ ।। । कृगः कित् ॥ ३७६॥ डुकृग् करणे इत्यस्मात् किद् इयः प्रत्ययो भवति । क्रियः-मेषः ॥ ३७६ ॥ मृजेर्णालीयः ।। ३७७ ॥
मृजौक शुद्धौ, इत्यस्माद् णिदालीयः प्रत्ययो भवति । मार्जालीयम्-पापशोधनम् , मार्जालीयः-अग्निः, मृजोऽस्य वृद्धिरिति वृद्धिः, णकार उत्तरार्थः ।। ३७७ ।।