________________
३९२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम् ।
[सूत्र-३६३-३६८
कुल बन्धुसंस्त्यानयोः, इत्यस्मात् किद् यः प्रत्ययो भवति-डकारश्चान्तादेशो वा । कुड्य-भित्तिः । कुल्या-सारणी ।। ३६२ ।।
अग-पुलाभ्यां स्तम्भेर्डित् ॥ ३६३ ।।
अग-पुल इत्येताभ्यां परस्मात् स्तम्भेः सौत्रात् डिद् यः प्रत्ययो भवति । अगस्त्यः पुलस्त्यश्च-ऋषिः ।। ३६३॥
शिक्यास्याढ्य-मध्य-विन्ध्य-धिष्ण्याघ्न्यहर्म्य सत्य-नित्यादयः ॥ ३६४ ॥
एते यप्रत्ययान्ता निपात्यन्ते । शोंच तक्षणे, इकश्चान्त:, शिक्यं-लम्बमान: पिठाद्याधारः, परिवाड्भिक्षाभाजनस्थानम् , असारं च । असूच क्षेपणे-दीर्घत्वं च आस्यमुखम् । आङ पूर्वाद् ढोकतेडिच्च, आध्यः-धनवान् । मव बन्धने ध् च, मध्यं - गर्भः । विधत् विधाने, स्वरान्नोऽन्तश्च, विन्ध्य:-पर्वतः। त्रिधषाट् प्रागल्भ्ये, णोऽन्तो धिष् च, धिष्ण्यंभवनम् , आसनं च, धिष्ण्या-उल्का । नञ्पूर्वाद्धन्तेरुपान्त्यलोपश्च । अघ्न्यः-धर्मः, गोपतिश्च, अघ्न्या गौः। हरतेर्मोऽन्तश्च, हयं- सौधम् । अस्तेः, सत् च सत्यम् अमृषा । निपूर्वाद्यमेस्तोऽन्तो धातुलुक् च । नित्यं-ध्रुवम् । आदिग्रहणाल्लह्यद्रुह्यादयो भवन्ति
कु-गु-बलि-मलि-कणि-तन्याम्यक्षरयः ॥ ३६५ ॥
एभ्यः अयः प्रत्ययो भवति । कुंक शब्दे, कवयः-ऋषिः, पुरोडाशश्च । गुंङ शब्दे, गवय:-गवाकृति: पशुविशेषः । वलि संवरणे, वलयः-कटकः । मलि धारणे, मलय:-पर्वतः । कण शब्दे, कणयः-आयुधविशेषः। तनूयी विस्तारे, तनयः-पुत्रः । अमण रोगे णिचि च आमयः-व्याधिः । अक्षौ व्याप्तौ च, अकया-विष्णुः ।। ३६५ ।।
चायेः केक च ।। ३६६ ॥
चायग् पूजानिशामनयोः इत्यस्माद् अयः प्रत्ययो भवत्यस्य च केक इत्यादेशो भवति । केकय:-क्षत्रियः ।। ३६६ ॥
लादिभ्यः कित् ।। ३६७ ।। ..... लादिभ्यः किद् अयः प्रत्ययो भवति । लांक आदाने, लयः । पां पाने, पयः । ष्णांक शौचे, स्नयः । देङ पालने, दयः । ट्धं पाने, धयः । मेंङ प्रतिदाने, मयः, के शब्दे, कयः । खें खदने, खयः । श्रां पाके, श्रयः । बै-जै-सै क्षये, क्षयः, जयः सयः, त्रैङ पालने, त्रयः। . ओवै शोषणे वयः । इत्यादि ।। ३६७ ॥
कसेरलादिरिचास्य ॥ ३६८ ॥
"कस गतौ इत्यस्मादलादिरयः प्रत्ययो भवत्यकारस्य चेकारो भवति । किसलयंप्रवालम् ।। ३६८ ॥