SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३९६ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-३८९-३६३ उन्दैप् क्लेदने, उद्रः-ऋषिः, मत्स्यश्च । संपूर्वात् समुन्दन्ति-आर्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः-सागरः । भीमादित्वादपादाने । दम्भूट दम्भे, दभ्रः-अल्पः, चन्द्रः, कुशः, कुशलः, सूर्यश्च । शुभि दीप्तौ, शुभ्रः-अवदातः। उम्भत पूरणे, उभ्र -मेघः, पेलवश्च । दशं दशने, दश्रः-दन्तः, सर्पश्च । चिंगट चयने, चिरम् अशीघ्रम् । घिन्ट् बन्धने, सिरारुधिरस्रोतोवाहिनी नाडी। वहीं प्रापणे उह्रः-अनड्वान् । विसच प्रेरणे, विस्रम्-आमगन्धि । वसं निवासे, उस्रः-रश्मिः । बाहुलकात् षत्वं न भवति । उस्रा गौः । शुच शोके, शुक्रः-ग्रहः, मासः, शुक्लश्च, शुक्र-रेतः, लत्वे शुक्लः-वर्णः, कत्वं न्यङक्वादित्वात् । षिधू गत्याम् , सिध्रः-साधुः, वृक्षः, मांसप्रभेदश्च । गृधूच अभिकाङक्षायाम् गृध्रः-श्येनः, लुब्धकः, कङ्कश्च । त्रिइन्धपि दीप्तौ, विपूर्वात् , वीध्रः-अग्निः, वायुः, नभः, निर्मलः, पूर्णचन्द्रमण्डलं च । श्विताङ वरणे, श्वित्रं-श्वेतकुष्ठम् । वृतूङ वर्तने । वृत्रः-दानवःबलवान् , रिपुश्च, वृत्रं-पापम् । णींग प्रापणे, नीरं-जलम् । शीङक स्वप्ने. शीर:-अजगरः पुंग्ट् अभिषवे, सुरः-देवः, सूरा-मद्यम् । षूङौच् प्राणिप्रसवे, सूरः-आदित्यः, रश्मिश्च । ३८८॥ इण-धाग्भ्यां वा ॥ ३८६ ॥ आभ्यां रः प्रत्ययो भवति, स च किद्वा। इंण्क् गतौ, इरा-मदनीयपानविशेषः मेदिनी च, एरा-एडका । डुधांग्क धारणे च । धीर:-सत्त्ववान् , धृतिमांश्च, धारा जलयष्टिः-खङ्गावयवः, अश्वगतिविशेषश्च ॥ ३८९ ।। चुम्बि-कुम्बि-तुम्बेर्नलुक् च ॥ ३६० । एभ्यः किद् र: प्रत्ययो भवति, नकारस्य चैषां लुग् भवति । चुबु वक्त्रसंयोगे, चुन-वक्त्रम् चुम्बः-रश्मिः । कुबु आच्छादने, कुब्र-संकटम् , भग्नपृष्ठः, फल्गुहस्ती, चर्म, गृहाच्छादनं च । तुबु अर्दने, तुब-कुटिलम् ॥ ३९० ।। भन्देर्वा ॥ ३६१॥ भदुङ सुख-कल्याणयोः इत्यस्माद् रः प्रत्ययो भवति, नकारस्य च लुग वा भवति । भद्रं, भन्द्रं च कल्याणम् , सुखं च ।। ३६१ ।। . चि-जि-शु-सि-मि-तम्यमर्दीर्घश्च ।। ३६२ ॥ एभ्यो रः प्रत्ययो भवति दीर्घश्चैषां भवति । चिन्ट् चयने, चीरं-जीणं वस्त्र, वल्कलं च । जि अभिभवे ..जोरः-अजाजी, अग्निः, वायुः, अश्वश्च, जोरम्-अन्नम् , लत्वे जील:-चर्मपुटः । शुं गतो, शूर:-विक्रान्तः । बिग्ट् बन्धने, सीरं-हलम् , सीरा हलविलेखिता लेखा। डुमिंग्ट प्रक्षेपणे, मीरः-समुद्रः, मीरंजलम् , मीरा-मांस्पचनी, देवसीमा च । तमूच् काङ्क्षायाम् , ताम्रः-वर्णः, शुल्वं च । अम गतौ, आम्रः-वृक्षः । अर्द गतियाचनयोः, आर्द्र-सरसम् ॥ ३९२॥ चकि-रमि-विकसे-रुच्चास्य ॥ ३६३ ॥ ..
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy