________________
पाद-३, सूत्र-५९-६१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्याय:
[२३
यमः स्वीकारे ॥ ३. ३. ५१ ॥
उपपूर्वाद् यमः स्वीकारेऽर्थे वर्तमानात् कर्तर्यात्मनेपदं भवति । कन्यामुपयच्छते, वेश्यामुपयच्छते, उपायंस्त महास्त्राणि । विनिर्देशः किम् ? शाटकानुपयच्छति, नात्रास्वं स्वं क्रियते, स्वत्वेन तु निर्मातस्य ग्रहणमिति न भवति । उद्वाह एवेच्छन्त्यन्ये ॥ ५६ ॥
न्या० स०-यमः स्वी०-उद्वाह एवेच्छन्तीति-तन्मते वेश्यामुपयच्छते इत्यादि न भवति ।
देवार्चा-मैत्री-संगम-पथिकर्तृक-मन्त्रकरणे स्थः ॥ ३. ३.६० ॥
एष्वर्थेषु वर्तमानात् उपपूर्वात् तिष्ठतेः कर्तर्यात्मनेपदं भवति । देवार्चायाम्जिनेन्द्रमुपतिष्ठते।
बहूनामप्यचित्तानामेको भवति चित्तवान् ।
पश्य वानरसंघेऽस्मिन यदर्कमुपतिष्ठते ।। १ ॥ यदा तु नेयं देवपूजाऽपि तु चापलमिति विवक्षितं तदा न भवति• "मैवं मंस्थाः सचित्तोऽयमेषोऽपि हि यथा वयम् ।
एतदप्यस्य कापेयं, यदर्कमुपतिष्ठति ॥१॥ मित्रतया मित्त्रं वा कर्तु माचरणं मैत्री, उपस्थानस्य हेतुः फलं वा-महामात्रानुपतिष्ठते, रथिकानुपतिष्ठते । मैत्र्या हेतुना फलेन वाऽऽराधयतीत्यर्थः । संगम उपलेश्षःयमुना गङ्गामुपतिष्ठते । पन्थाः कर्ता यस्यार्थस्य स पथिकर्तृकः, अयं पन्थाः स घ्नमुपतिष्ठते । मन्त्रः करणं यस्यार्थस्य स मन्त्रकरणः ऐन्द्रया गार्हपत्यमुपतिष्ठते, सावित्र्या सूर्यमुपतिष्ठते, आराधयतीत्यर्थः; मन्त्रादन्यत्र भर्तारमुपतिष्ठति यौवनेन । करणग्रहणं किम् ? गायत्रीमुपतिष्ठति, प्रत्र मैत्री धात्वर्थविशेषणेनोपसर्जनं धात्वर्थः, शेषास्तु प्रधानम् ॥६०॥
न्या० स०-देवार्चा०—मित्रतया मित्रं वा कर्तु मिति-'अजयं संगतम्' इतिवत् संपूर्वस्य गमेमत्र्यामपि दर्शनात् , मैत्रीसंगमयोराभेद इति, यः शङ्कते तं प्रत्युपश्लेषरूपात् संगमात् मित्रतयेत्यादिना मैत्र्या भेदं दर्शयति, विनापि हि संश्लेषेण मैत्रीत्यर्थः, मित्रस्य भावो मैत्री, 'सा उपस्थानस्य धात्वर्थस्य हेतुनिवत्तिका, यदा हि रथिकानुपतिष्ठत इत्यत्रोपस्थाता मित्रं सत् उपतिष्ठते तदा मैत्री हेतुः, यदा तु प्रागमित्रः सन् मैत्र्यर्थं प्रवर्तते तदा मैत्री फलं, ततश्च कारणस्य फलस्य च क्रियां प्रति विषयत्वोपपत्तेरुपस्थानस्य विशेषणत्वेन मैत्री गौणो धात्वर्थो भवति ।
वा लिप्सायाम् ॥ ३. ३. ६१ ।।
उपपूर्वाव तिष्ठतेलिप्सायां गम्यमानायां कर्तर्यात्मनेपदं भवति । भिक्षुको दातृकुलमुपतिष्ठति उपतिष्ठते वा, भिक्षां लभेयेति ॥ ६१ ॥