________________
२२ ]
बृहद्वत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-५३-५८
दागोऽस्वाऽऽस्यप्रसार-विकासे । ३. ३. ५३ ॥
आङपूर्वाद् ददातेः कर्तर्यात्मनेपदं भवति, न चेत् स्वास्यप्रसारणं विकासश्चार्थो भवति । विद्यामादत्ते, धनमादत्ते। प्रस्वास्यप्रसार-विकास इति किम् ? उष्ट्रो मुखं व्याववाति,-प्रसारयतीत्यर्थः; कूलं व्याददाति, विपादिका ज्याददाति, विकसतीत्यर्थः । स्वग्रहणमिति किम् ? व्याददते पिपीलिकाः पतङ्गस्य मुखम् । प्राङ इत्येव ? ददाति । फलवन्तोऽन्यत्रायं विधिः ॥ ५३ ।।
न्या० स०-दागोऽस्वा०-प्रसारणं प्रयोजकव्यापारः, विकासश्च कर्तृव्यापार इत्यनयोर्भेदः, विपूर्वात् कस गतावित्यतो घत्रि वृद्धौ विकासः ।
नु-प्रच्छः ॥ ३. ३.५४ ॥
प्राङ्पूर्वानौतेः प्रच्छेश्च कर्तर्यात्मनेपदं भवति । प्रानुते शृगालः, उत्कण्ठितः शब्दं करोति, उत्कण्ठापूर्वके संशब्दे नौतेरयं विधिर्न सर्वत्र । प्रापृच्छते गुरून् , आपृच्छस्व प्रियसखम्" [ मेघदूते ] वियुज्यमानस्य प्रश्नेऽयं विधिः। आङ इत्येव ? नौति, प्रणौति, पृच्छति, परिपृच्छति ॥ ५४॥
गमेः क्षान्तौ ॥ ३. ३.५५ ॥
क्षान्तिः कालहरणम् , तत्र वर्तमानाद् गमयतेरापूर्वकात् कर्तर्यात्मनेपदं भवति । आगमयते गुरून , कश्चित् कालं प्रतीक्षते; आगमयस्व तावत्, कश्चित् कालं सहस्वेत्यर्थः । क्षान्ताविति किम् ? आगमयति विद्याम्, गृह्णातीत्यर्थः। क्षान्तौ स्वभावाद् गमिर्ण्यन्त एव वर्तते ॥ ५५॥
हः स्पर्धे ॥ ३. ३.५६ ॥
आङपूर्वाद हयतेः कर्तर्यात्मनेपदं भवति, स्पर्षे गम्यमाने । स्पर्षः संघर्षः,-पराभिभवेच्छा, स धात्वर्थस्य विशेषणम् , धात्वर्थश्च ह्वयतेरापूर्वस्य शब्द एव स्वभावात् । मल्लो मल्लमाह्वयते, स्पर्धमान आकारयतीत्यर्थः । स्पर्ष इति किम् ? गामह्वयति ।। ५६॥
सं-नि-वेः ॥ ३. ३. ५७॥
सं-नि-विभ्यः पराद् ह्वयतेः कर्तर्यात्मनेपदं भवति । संह्वयते, नियते, विह्वयते ॥ ५७ ॥
उपात् ॥ ३. ३. ५८ ॥ उपपूर्वाद ह्वयतेः कर्तर्यात्मनेपदं भवति । उपह्वयते । योगविभाग उत्तरार्थः ॥१८॥