________________
पाद - ३, सूत्र - ५०-५२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ २१
त्मनेपदमेव, वृत्त्यादिषु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते - निष्क्रमते, प्रतिक्रमते, - न प्रतिहन्यते इत्यर्थः ॥ ४६ ॥
न्या० स०- परोपा०:- पराक्रामतीति- कोऽर्थः ? परावृत्त्या क्रामति शौर्यं वा कुरुते । उपक्रामति समीपे गच्छतीत्यर्थः ।
वेः स्वार्थे ॥। ३. ३. ५० ॥
स्वार्थः पादविक्षेपः तस्मिन् वर्तमानाद् वेः परात् क्रमेः कर्तर्यात्मनेपदं भवति । साधु विक्रमते गजः । स्वार्थे इति किम् ? श्रश्वेन विक्रामति, विक्रामत्य जिन संधि:, - स्फुटतीत्यर्थः ; विक्रामति राजा, उत्सहते इत्यर्थः ।। ५० ।।
न्या० स० - वेः स्वार्थे- अश्वेन विक्रामतीति- नन्वत्रापि पादविक्षेप एव ऋमिर्वर्त्तते स च कर्तृ कृतः करणकृतो वा भवतु ? सत्यं, गौणमुख्ययोः * इति न्यायात् सर्वकारकप्रधानभूतकर्तृकृत एव गृह्यते, अत्र तु करणकृतः पादविशेष इति न भवति । विक्रामति राजेति- 'परोपात्' ३-३-४९ एवेति नियमात् ' वृत्तिसर्ग' ३-३-४८ इत्यादिनापि न ।
प्रोपादारम्भे ।। ३ ३ ५१ ॥
"
प्रारम्भ श्रादिकर्म, अङ्गीकरणं चेत्यन्ये, तस्मिन् वर्तमानात् प्रोपाभ्यां परात् क्रमेः कर्तर्यात्मनेपदं भवति । प्रक्रमते, उपक्रमते भोक्तुम्, - प्रारभते अङ्गीकरोति चेत्यर्थः । आरम्भ इति किम् ? पूर्वेद्युः प्रक्रामति, गच्छतीत्यर्थः ; अपरेद्युरुपक्रामति- समीपमागच्छतीत्यर्थः । " परोपात्" [ ३. ३. ४६ ] इत्यनेनापि न भवति वृत्त्यादेरर्थस्याविवक्षितस्वात् । अन्ये तु स्वार्थविषय एवारम्भे मन्यन्ते, तेनोपक्रमते, प्रक्रमते पादाभ्यां गन्तुमारभत इत्यर्थ इत्यत्रैव भवति, स्वार्थविषयारम्भादन्यत्र तु प्रक्रामति, उपक्रामति भोक्तुमित्यत्र न भवति ।। ५१ ॥
श्राङो ज्योतिरुद्गमे ॥ ३. ३. ५२ ॥
आङः परात् क्रमेर्ज्योतिषां चन्द्रादीनामुद्गमे ऊर्ध्वगमने प्रधाने उपसर्जने वा वर्तमानात् कर्तर्यात्मनेपदं भवति । श्राक्रमते चन्द्रः आक्रमते, सूर्य:, - उदयते इत्यर्थः ; दिवमाक्रममाणेन केतुना, अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जन व्याप्तिवचनः क्रमिः । ज्योतिरुद्गम इति किम् ? आक्रामति मारणवक: कुतुपम् - अवष्टम्नातीत्यर्थः । ज्योतिरिति किम् ? धूम आक्रामति, उद्गच्छतीत्यर्थ; श्राक्रामति धूमो हर्म्यतलम्, - उद्गच्छन् व्याप्नोतीत्यर्थः । उद्गम इति किम् ? 'नभः समाक्रामति नष्टवर्त्मना, स्थितैकचक्रेण रथेन भास्करः ।" अत्र व्याप्तिमात्रं विवक्षितम्, न तद्गमोपसर्जनव्याप्तिः । अन्ये तद्गमोपसर्जनां व्याप्ति पश्यन्तोऽसाधुमेनं मन्यन्ते ।। ५२ ।।