________________
२० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-४६-४९
वय॑न् , वतिष्यमाणः; विवृत्सति, विवतिषते । एवं-स्यन्दौङ २-स्यन्त्स्यति, स्यन्विष्यते, सिस्यन्त्सति, सिस्यन्दिषते । वृषङ् ३-वय॑ति, वधिष्यते, विवृत्सति, विधिषते, शृधड ४शत्यति धिष्यते, शिशत्सति, शिधिषते । कृपौड ५-कल्स्यति, कल्पिष्यते, चिक्लप्सति, चिकल्पिषते । स्य सनोरिति किम् ? वर्तते, वर्धते । इयमपि प्राप्तविभाषा ॥ ४५ ॥
न्या० स०-वृद्भ्यः स्य-चिक्लप्सतीति-'दूरादामन्त्रस्य'-७-४-९९ इत्यत्र लग्रहणेन के ऋवर्णापदिष्टं कार्य लवर्णस्यापि के इति लुतोऽपि 'ऋतोऽत्' ४.१३८ ।
कृपः श्वस्तन्याम् ॥ ३. ३. ४६ ॥ कृपेः श्वस्तन्यां विषये कर्तर्यात्मनेपदं वा स्यात् । कल्प्तासि, कल्पितासे । ४६ ।। . क्रमोऽनुपसर्गात् ॥ ३. ३. ४७ ॥
अविद्यमानोपसर्गात् क्रमेः कर्तर्यात्मनेपदं वा भवति । क्रमते, क्रामति । अनुपसर्गादिति किम् ? संक्रामति । वृत्त्यादेरन्यत्रायमारम्भ इत्यप्राप्तविभाषा । ४७ ॥
न्या० स०-क्रमोऽनु०:- अविद्यमानोपसपर्गादिति-बहुव्रीहिरयम् , यदि पुनर्न उपसर्गोऽनुपसर्ग इति तत्पुरुषो विधीयते, तदोपसर्गादन्योऽनुपसर्गस्तस्मात् परो यः ऋमिस्तत इति प्रतिपत्तौ केवलान्न स्यात् , प्रसज्याश्रयणे त्वऽसमर्थसमास: कष्टः स्यात् ।
वृत्ति-सर्ग-तायने ॥ ३. ३. ४८ ।।
वेति निवृत्तम् । वृत्त्यादिष्वर्थेषु वर्तमानात् क्रमेः कर्तर्यात्मनेपदं भवति । वृत्तिरप्रतिबन्ध प्रात्मयापनं वा, शास्त्रेऽस्य क्रमते बुद्धिः-तत्र न हन्यते आत्मानं यापयति वेत्यर्थः । सर्ग उत्साहस्तात्पर्य वा, सर्गेणातिसर्गस्य लक्षणादनुज्ञा वा-सूत्राय क्रमते, तदर्थमुत्सहते, तत्परो वाऽनुज्ञातो वा । तायनं स्फीतता संतानः पालनं वा, क्रमन्तेऽस्मिन् योगाः, स्फीता भवन्ति, संतन्यन्ते पाल्यन्ते वेत्यर्थः । वृत्त्यादिष्विति किम् ? कामति ।। ४८ ।।
न्या० स०-वृत्तिसर्ग०-विरोधिनामिति व्यावृत्तिप्रसङ्ग सूत्रत्वात् समाहार: कर्मधारयो वा। वेति निवृत्तं-व्यावृत्तव्यवच्छेद्याभावात् अर्थविशेषोपादानाद् वा। सन्तन्यन्ते हुति-संतानेन प्रवर्तन्ते कर्मकर्तरि कर्मणि वा तदा विस्तार्यन्त इत्यर्थ, सामर्थ्यादनेनैव अस्मिन् शब्दवाच्यत्वेन, पाल्यन्ते इति कर्मणि, न तु कर्मकर्तरि 'भूषार्थ' ३-४-९३ इति क्यनिषेधात् , अस्मिन् विषये आचार्येण योगा रक्ष्यन्ते इत्यर्थः ।
परोपात् ।। ३. ३. ४१ ॥
परोपाभ्यामेव परात् क्रमेव त्यादिष्वर्थेषु कर्तर्यात्मनेपदं भवति । पराक्रमते, उपक्रमते । परोपादेवेति किम् ? अनुक्रामति। वृत्त्यादिष्वित्येव-पराक्रामति, उपकामति । अन्ये तु परोपाभ्यां परात् क्रमतेर्वृत्त्याद्यर्थाभावेऽपीच्छन्ति, तेन-पराक्रमते, उपक्रमते इत्या