________________
पाद-३, सूत्र-४०-४५] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[१९
इत्यादौ श्रमापगमादेः फलस्य कर्तृ समवाययित्वात सिद्धे आत्मनेपदे नियमार्थ वचनम् , व्यवेच्छेद्य च प्रत्युदाहरणम् । शमयतिक्रियावचनादेव च नयतेरात्मनेपदं दृश्यते न प्रापणा. र्थात, यथा
"शिवमोपयिकं गरीयसी, फलनिष्पत्तिमदूषितायतिम् ।
विगणय्य नयन्ति पौरुषं, विहितक्रोधरया जिगीषवः ॥१॥"[किराते ]
यथा च कोपं शमं नयति, मन्यु नाशं नयति, प्रज्ञा प्रवृद्धि नयति, बुद्धि क्षयं नयति ॥४०॥
न्या० स०-कर्तृ स्था०:-नियमार्थमिति-तेनात्र सूत्रे फलवत्तैव विवक्ष्यते । व्यवच्छेद्यमिति-तेन प्रत्युदाहरणेषु फलवत्त्वविवक्षायामऽपि नात्मनेपदम् ।
शदेः शिति ॥ ३. ३. ४१ ॥ शदेः शिद्विषयात् कर्तर्यात्मनेपदं भवति । शीयते । शितीति किम् ? शत्स्यति ॥४१।। प्रियतेरद्यतन्याशिषि च ॥ ३. ३. ४२ ॥
म्रियतेरद्यतन्याशीविषयाच्छिद्विषयाच्च कर्तर्यात्मनेपदं भवति । अमृत, मृषीष्ट, नियते. म्रियेत, म्रियताम् , अम्रियत । अद्यतन्याशिषि वेति किम् ? ममार, मासि, मरिष्यति, अमरिष्यत् । तिवनिर्देशाद् यङ्लुपि न भवति-मर्मति ॥ ४२ ॥
क्यक्षो नवा ॥ ३. ३. ४३ ॥
डाउलोहितादिभ्यः क्यङ्षित् वक्ष्यते, तदन्ताद्धातोः कर्तर्यात्मनेपदं भवति वा। पटपटायति, पटपटायते; लोहितायति, लोहितायते; निद्रायति, निद्रायते ।। ४३ ।।
धुभ्योऽद्यतन्याम् ॥ ३. ३. ४४ ॥
बहुवचनं गणार्थम् । तादिभ्योऽद्यतनीविषये कर्तर्यात्मनेपदं वा भवति । व्यधुतत् , व्यद्योतिष्ट; अरुचत् , अरोचिष्ट । प्रद्यतन्यामिति किम् ? द्योतते । धुति १ रुचि २ घुटि ३ रुटि ४ लुटि ५ लुठि ६ श्विताङ् ७ मिमिदाङ् जिश्विदाङ् निष्विदाङ् १० शुभि ११ क्षुभि १२ णभि १३ तुभि १४ स्त्रम्भूङ् १५ भ्रसूङ् १६ स्रसूङ् १७ ध्वंसूङ् १८ वृतूङ् १६ स्यन्दौङ् २० वृधूङ २१ शृधूङ २२ कृपौङ् २३ इति द्युतादिः । प्राप्तविभाषेयम् ॥४४॥
वृद्भ्यः स्यसनोः ॥ ३. ३. ४५ ॥
बहुवचनं पूर्ववत् , वृतादयो द्युताद्यन्तर्गताः पञ्च, तेभ्यः स्यकारादिप्रत्यये सन्प्रत्यये विषये च कर्तर्यात्मनेपदं भवति वा । वृतूङ् १-वय॑ति, वतिष्यते, अवय॑त् , प्रतिष्यत,