________________
१८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-३९-४०
धर्मान्तरेण पितरमनुहरन्ति । अथवा गते-गमने ताच्छील्ये च वर्तमानाद्धरतेरात्मनेपदं भवति-पैतृकमश्वा अनुहरन्ते, तद्वद् गच्छन्ति-तद्वच्छोलन्ति वेत्यर्थः ॥ ३८ ॥
न्या० स०-हगो गत-गम्यते ज्ञायते सदृशतया गतं कर्मेति व्युत्पत्त्या सादृश्य तच्च तत् तेन वा ताच्छील्यं तस्मिन् । केवलोऽपि हरतिस्ताच्छील्ये उच्यते यथा पितुर्हरतीति, परं गतताच्छील्येऽनुपूर्व एव, अनुपूर्वो हरतिर्गतताच्छील्य एवोदेतीति वैपरीत्यं न, नटो राममनुहरतीत्यादौ गतताच्छील्यं विनापि सादृश्ये अनुपूर्वकहरतेर्दर्शनात् , एवं पितुरनुहरते इति प्रकाराऽनुकारसादृश्यानामैकार्थेऽपि शब्दशक्तिस्वाभाव्यात् सादृश्ये कर्म नास्तीति संबन्धेऽत्र षष्ठी।
तद्वद्गच्छन्तीति-पितुरागतं यथा भवति एवं गच्छन्तीत्यर्थे पैतृकशब्दात् क्रियाविशेषणादम् , तद्वदित्यत्र परार्थे प्रयुज्यमानः शब्दो वति विनापि वत्यथं गमयति । तदवच्छीलन्तीति-तद्वच्चारित्रिणो भवन्ति, शोल समाधौ शोलण् इत्यस्य वा णिचोऽनित्यत्वात् , नात्र ताच्छील्यं पूर्वोक्तमुत्पत्तेः प्रभृतीत्यादि ।
पूजा-ऽऽवार्यक-भृत्युत्क्षेप-ज्ञान-विगणन-व्यये नियः।। ३.३.३९ ।।
पूजाऽऽचार्यकभृतिषु यथासंख्यं कर्मकर्तृधात्वर्थविशेषणेषु गम्यमानेषु, उत्क्षेपादिषु च धात्वर्थेषु वर्तमानान्नयतेः कर्तर्यात्मनेपदं भवति । पूजा-सन्मान:-नयते विद्वान् स्याद्वादे, प्रमाणव्यापारवित् स्याद्वारे जीवादीन् पदार्थान् युक्तिभिः स्थिरीकृत्य शिष्यबद्धि प्रापयतीत्यर्थः, ते युक्तिभिः स्थिरीकृताः पूजिता भवन्ति । आचार्यस्य भावः कर्म वा-ऽऽचार्यकम्-मारणवकमुपनयते, स्वयमाचार्यो भवन् माणवकमध्ययनाया-ऽऽत्मसम पं प्रापयतीत्यर्थः । भृतिः वेतनम-कर्मकरानुपयते, वेतनेनात्मसमीपं प्रापयतीत्यर्थः । उत्क्षेपः ऊर्ध्वं नयनम्-शिशुमुदानयते, उत्क्षिपतीत्यर्थः । ज्ञानं प्रमेयनिश्चयः-नयते तत्त्वार्थे, तत्र प्रमेयं निश्चिनोतीत्यर्थः । विगणनम् ऋणादेः शोधनम्- मद्राः कारं विनयन्ते, राजग्राह्यभागं दानेन शोधयन्तीत्यर्थः । व्ययो धर्मादिषु विनियोग:-शतं विनयते, सहस्र विनयते, धर्माद्यर्थं तीर्थादिषु विनियुक्त इत्यर्थः । एतेष्विति किम् ? अजां नयति ग्रामम् । गित्त्वावफलदर्थ आरम्भः ।। ३६ ॥
न्या० स०-पूजाचार्यक० पूजादयोऽत्र नयतेविशेषणतयोपादीयमानाः केचित् साक्षाद्विशेषणभावमनुभवन्ति, केचित्तु पारंपर्येणेति विभज्याह-पूजेत्यादिना आचार्यकग्रहणात् प्राचार्यकर्म कुर्वन्नेवात्मनेपदविधौ कर्ता, अत एवाचार्य इति नोपात्तम् ।
कर्तृस्थामूर्ताप्यात् ।। ३. ३. ४० ॥
कर्तृस्थममूर्तमाप्यं-कर्म यस्य तस्मान्नयतेः कर्तर्यात्मनेपदं भवति । श्रमं विनयते, क्रोधं विनयते-शमयतीत्यर्थः । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्यु विनयति । अमूर्तेति किम् ? गड़ेविनयति, घट्ट विनयति । आप्येति किम् ? बुद्धचा विनयति । 'श्रमं विनयते'