________________
पाद- ३, सूत्र - ३६-३८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
आशिषि नाथः ॥ ३. ३.३६ ॥
श्राशिष्येवार्थे वर्तमानान्नाथते: कर्तर्यात्मनेपदं भवति । सर्पिषो नाथते, मधुनो नाथते - सपि भूयान्मधु मे भूयादित्याशास्ते इत्यर्थः । श्राशिष्येवेति नियमः किम् ? मा भूत् मधु नार्थात । ङिस्करणं त्वस्यानप्रत्ययार्थम् ॥। ३६ ।।
भुनजोऽत्राणे ॥ ३. ३. ३७॥
त्राणात् - पालनादन्यत्रार्थे वर्तमानाद् भुनक्तेः कर्तर्यात्मनेपदं भवति । श्रोदनं भुङ्क्ते, परिभुङ्क्ते । अत्राण इति किम् ? महीं भुनक्ति पालयतीत्यर्थः ; "अम्बरीषश्च नाभागो बुभुजाते चिरं महीम्" इत्यत्र तु न पालनं भुजेरर्थः, किन्तु पालननिमित्तक उपकारः, धातूनामनेकार्थत्वात्, पालनेन महीमुपकृतवन्तौ मह्याश्रयं फलं स्वीकृतवन्ताविति वेत्यर्थः । उभयपदिनमेनमन्ये मन्यन्ते । भुनजिति इननिर्देश "भुजोंत् कौटिल्ये" इत्यस्य निवृत्त्यर्थ:- ओष्ठौ निर्भुजति, कुटिलयतीत्यर्थः ॥ ३७ ॥
न्या० स०- भुनजो० :
-
[ १७
अरिषड्वर्गमुत्सृज्य, जामदग्न्यो जितेन्द्रियः ।
अम्बरीषश्च नाभागो, बुभुजति चिरं महीम् ।। १ ।।
अमति गच्छति प्रतिष्ठां 'अमेर्वरादि : ' ५५५ ( उणादि ) इति ईषप्रत्यये अम्बरीषो राजा, किं भूतो ? नाभाग:, न विद्यते भागः पुण्यमस्य, न अभागो नाभाग:, यद्वा न भाग: पिता देवतास्य 'देवता' ६-२-१०१ इत्यण् ।
भूजोंत् कौटिल्ये इतीति-अथ निरनुबन्धग्रहणे यति ? सत्यं जात्याश्रयणेऽत्रापि स्यात्, न्यायानामनित्यत्वाद् वा ।
इति न्यायादेवास्य न भवि
हगो गतताच्छील्ये ॥ ३.३.३८ ॥
गतं प्रकारः सादृश्यमनुकरणमित्ये कोऽर्थः तच्छीलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम्, उत्पतेः प्रभृत्याविनाशात् तत्स्वभावता । हरतेः प्रकारताच्छील्येऽर्थे वर्तमानात् कर्तर्यात्मनेपदं भवति । शब्दशक्तिस्वाभाव्याच्चानुपूर्व एव हरतिर्गतताच्छील्ये वर्तते । पैतृकमश्वा अनुहरन्ते, मातृकं गावोऽनुहरन्ते पितुरागतं मातुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः । एवं पितुरनुहरते, पितरमनुहरते; मातुरनुहरते, मातरमनुहरते । गतग्रहणं किम् ? पितुर्हरति, मातुर्हरति । ताच्छील्य इति किम् ? नटो राममनुहरति-नटो हि कश्विदेव कालं राममनुकरोतीत्यसातत्ये न भवति । यद्वा गमनं गतं, तस्य पित्रादेः शीलमस्य तच्छीलस्तस्य भावस्ताच्छोत्यम्, गतेन गमनेन ताच्छीत्यं गतताच्छील्यं, - तस्मिन्नर्थे वर्तमानाद्धरतेः कर्तर्यात्मनेपदं भवति । पैतृकमश्वा अनुहरन्ते पितुरागतं गमनमविच्छेदेन शीलयन्तीत्यर्थः । एवं पितुरनुहरते, पितरमनुहरते । गतताच्छील्य इति किम् ?