________________
२४ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-६२-६६
उदोऽनूचेहै ॥ ३. ३. ६२ ॥
अनूवो य ईहश्चेष्टा, तत्र वर्तमानादुदः परात तिष्ठतेः कर्तर्यात्मनेपदं भवति । मुक्तावतिष्ठते, मुक्त्यर्थ चेष्टत इत्यर्थः । अनूर्वेति किम् ? आसनादुत्तिष्ठति । ईहेति किम् ? आसनाद ग्रामाच्छतमुत्तिष्ठति, सेनोत्तिष्ठति, उत्पद्यत इत्यर्थः ॥ ६२ ॥
सं-वि-प्राऽवात् ॥ ३. ३.६३ ॥
एभ्यः परात् तिष्ठतेः कर्तर्यात्मनेपदं भवति । संतिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते ।। ६३ ॥
ज्ञीप्सा-स्थेये । ३. ३. ६४ ।।
परपरितोषार्थमात्मरूपादिप्रकाशनं-ज्ञोप्सा, तिष्ठन्त्यस्मिन्निति स्थेयः, रूढिवशाद विवादपदे निर्णता प्रमाणभूतः पुरुष उच्यते । जीप्सायां स्थेयविषयायां च क्रियायां वर्तमानात् तिष्ठतेः कर्तर्यात्मनेपदं भवति । तिष्ठते कन्या छात्रेभ्यः, तिष्ठते वृषली प्रामेभ्यः, स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः । त्वयि तिष्ठते, मयि तिष्ठते, “संशय्य कर्णादिषु तिष्ठते यः" [ किराते ] कर्णाविस्थेयोपदिष्टं निर्णयतीत्यर्थः ।। ६४ ॥
न्या० स०-जीप्सा०-स्थेय इत्यत्र बाहुलकात् अधिकरणेऽपि 'य एच्चात:' ५-१-२८ इति यः, व्युत्पत्तिसमये आधारस्य निर्णेतृत्वं न विवक्षितमिति वाक्ये परस्मैपदमेव, अधिकरणस्य प्रत्ययार्थत्वेऽपि नास्याधिकरणमात्रे वृत्तिः, किं तहि क्वचिदेव ? इत्याह-रूढिवशादित्यादि ।
प्रतिज्ञायाम् ।। ३. ३. ६५ ॥
प्रतिज्ञा अभ्युपगमः, तत्र वर्तमानात् तिष्ठतेः कर्तर्यात्मनेपदं भवति । नित्यं शब्दमातिष्ठते, तदतदात्मकं तत्त्वमातिष्ठते । स्वभावाच्चायमापूर्व एव प्रतिज्ञायां वर्तते । योगविभाग उत्तरार्थः ॥ ६५ ॥
न्या० स०-प्रतिज्ञा०-तदतदात्मकमिति-एकशेषोऽनित्यः, शब्दप्रधानो वा निर्देशः शब्दार्थयोरभेदेन चार्थो वाच्यः, स चासावसश्च तदसः, स आत्मा यस्येति कर्मधारयपूर्वो वा बहुव्रीहिः।
समो गिरः ॥ ३. ३.६६ ॥
सम्पूर्वाद गिरतेः प्रतिज्ञायां वर्तमानात् कर्तर्यात्मनेपदं भवति । स्याद्वादं संगिरते, प्रतिजानीत इत्यर्थः । प्रतिज्ञायामित्येव ? संगिरति ग्रासम् । गिर इति निर्देशाद गणातेन भवति ॥६६॥