________________
सूत्र - ३४२-३४८ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ३८९
आभ्यां मः प्रत्ययो भवति, स च किद्वा भवति । टुक्षुक् शब्दे, क्षुमा-अतसी, मोक्षंवस्त्रम् | हिंदू गतिवृद्धयो:, हिमं तुषारः, हेमं- सुवर्णम् ।। ३४१ ।।
अवेद्द स्वश्च वा ॥ ३४२ ॥
अव रक्षणादी, इत्यस्मात् किद् म: प्रत्ययो भवति ऊटो ह्रस्वश्च वा भवति । उमागौरी, अतसी, कीर्तिश्च । ऊमम् ऊनम्, आकाशं, नगरम् ।। ३४२ ॥
सेरी च वा ॥ ३४३ ॥
षट् बन्धने इत्यस्मात् किद् म: प्रत्ययो भवति, ईकारश्चान्तादेशो वा भवति । सीमोग्रामगोचर भूमिः, क्षेत्रमर्यादा, हयश्च । सिमः एव सर्वार्थश्च ।। ३४३ ।।
भियः षोऽन्तश्च वा ॥ ३४४ ॥
त्रिभक् भये, इत्यस्मात् किद् म: प्रत्ययो भवति । षकारश्चान्तादेशो वा भवति । बिभेति अस्मादिति भीष्मः - भयानकः । भीमः स एव ।। ३४४ ॥
तिजि-युजेर्गं च ॥ ३४५ ।।
आभ्यां किद्मः प्रत्ययो भवति, गकारश्चान्तादेशो भवति । तिजि क्षमानिशानयोः, तिग्मं - तीक्ष्णं, दीप्तं, तेजश्च । यु पी योगे, युग्मं - युगलम् ।। ३४५ ।।
च,
रुक्म- ग्रीष्म-कर्म-सूर्य- जाल्म - गुल्म- घोम-परि- स्तोम सूक्ष्मादयः ॥ ३४६॥ एते किन्मप्रत्ययान्ता निपात्यन्ते । रोचतेः क् च रुक्मं - सुवर्णं रूप्यं च । ग्रसेर्गीष् ग्रीष्मः ऋतुः । कुरते दीर्घश्च, कूर्म :- व :- कच्छपः । षूत् प्रेरणे, इत्यस्माद्रोऽन्तश्च भवति । सूर्मी - लोहप्रतिमा, चुल्लिश्च जल घात्ये दीर्घश्च, जाल्मः - निक्रुष्ट । गुपच् व्याकुलत्वे 'लश्च, गुल्मः - व्याधिः तरुसमूहः, वनस्पतिः, सेनाङ्ग च, गुल्मम् - आयस्थानम् । जिघ्रतेरोत्वं च, घोम:- यज्ञाङ्गलक्षणः सोमः । परिपूर्वात् स्तोतेः षत्वाभावो गुणश्च, परिस्तोमःयज्ञविशेषः । सूचण् पैशून्ये कत्वं षोऽन्तश्च । सूक्ष्मः - निपुणः, सूक्ष्मम् - अणु । आदिग्रहणात् क्ष्मादयो भवन्ति ।। ३४६ ।।
सु-पृ-प्रथि-चरि-कडि-कर्देरमः ॥ ३४७ ॥
एभ्यः अम: प्रत्ययो भवति । सृ गतौ, सरमादेवशुनी । पृश् पालनपूरणयोः परम:उत्कृष्ट: । प्रथिषु प्रख्याने, प्रथमः- आद्यः । चर भक्षणे, चरम :- पश्चिमः । कडत् मदे, कडमःशालिः । ऋफिडादित्वाल्लत्वे कलम :- स एव । कर्द कुत्सिते शब्दे, कर्दमः - पङ्कः ।।३४७॥
अवेर्ध, चवा || ३४८ ॥
अव रक्षणादी, इत्यस्मादम प्रत्ययो भवति, धश्चान्तादेशो वा भवति । अधमः, अवमश्चहीनः ।। ३०८ ।।