________________
३९० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
त्र-३४६-३५४
कुट्टि-वेष्टि-पूरि-पिषि-सिचि-गण्यर्पि-वृ-महिभ्य इमः ॥ ३४६ ॥
एभ्य इमः प्रत्ययो भवति । कुट्टण कुत्सने च, कुट्टिम-संस्कृतभूतलम् । वेष्टि वेष्टने, वेष्टिमं-पुष्पबन्धविशेषः, भक्ष्यविशेषश्च । पूरैचि आप्यायने, पूरिमं-मालाबन्धविशेषः, भक्ष्यविशेषश्च । पिषलप, संचूर्णने, पेषिमं-भक्ष्यविशेषः । षिचीत् क्षरणे, सेचिम-मालाविशेषः । गणण् संख्याने, गणिमं-गणितम्-ऋक् गतौ, णौ पौ, अपिमं बालवत्साया दुग्धम् । वृगट वरणे, वरिम-तुलोन्मेयम् । मह पूजायाम् , महिम-पूजनीयम् ॥ ३४६ ॥
वयिम-खचिमादयः ॥ ३५० ॥ __ वयिमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते । वेंग तन्तुसन्ताने, वयादेशश्च, वयिमं-माल्यं, कन्दुकः, तन्तुवायदण्डश्च । खनूग् अवदारणे, चश्च, खचिम-मणिलोहविद्धं, घृतविहीनं च दधि । आदिशब्दादन्येऽपि ॥ ३५० ।।।
उद्घटि-कुल्यलि-कुथि-कुरि-कुटि-कुडि-कुसिभ्यः कुमः ।। ३५१ ।।
उत्पूर्वाद्वटे: कुल्यादिभ्यश्च किदुमः प्रत्ययो भवति । वट वेष्टने, उद्वटुमः-परिक्षेपः । कुल बन्धुसंस्त्यानयोः, कुलुमः-उत्सवः । अली भूषणादौ, अलुम:-प्रसाधनम् , नापितः, अग्निश्च । कुथच् पूतीभावे, कुथुमः-ऋषिः, कुथुम-मृगाजिनम् । कुरत् शब्दे, कुरुम:कारुः, भाजनं च । कुटत् कौटिल्ये, कुटुमः-प्रेष्यः । कुडत् बाल्ये च, कुडुमाभूमिः । कुसच् श्लेषे, कुसुमं-पुष्पम् ।। ३५१ ॥
कुन्दुम-लिन्दुम-कुङ्कुम-विद्रुम-पटुमादयः ।। ३५२ ॥
एते कुमप्रत्ययान्ता निपात्यन्ते । कुकि आदाने स्वरान्नो दश्च, कुन्दुमः-निचयः, गन्धद्रव्यं च । लीङच श्लेषणे, लिन्दभावश्च, लिन्दुमः-गन्धद्रव्यम् । कूकेः स्वरान्नोन्तश्च । कुङ कुम-घुसृणम् । विद्लुती लाभे, रोन्तश्च, विद्रुमः-प्रवालः । पटेष्टोऽन्तश्च । पटुमनगरम् । आदिग्रहणादन्येऽपि ।। ३५२ ।।
कुथि-गुधेरूमः ॥ ३५३ ॥
आभ्यामूमः प्रत्ययो भवति । कुथच् पूतिभावे, कोथूमः चरणकृषिः । गुधच् परिवेष्टने, गोधूमः-धान्यविशेषः ।। ३५३ ।।
विहा-विशा-पचि-भिद्यादेः केलिमः ॥ ३५४ ॥
विपूर्वाभ्याम् ओहांक त्यागे, शोंच तक्षणे, इत्येताभ्यां पच्यादिभ्यश्च किद् एलिमः प्रत्ययो भवति । विहीयते त्यज्यतेऽशुचि शरीरमस्मिन्निति विहेलिमः स्वर्गः। विश्यति तनूभवति मासि मासि कलाभि-यमान इति विशेलिमः-चन्द्र , स्वर्गश्च । डुपची पाके, पचति असावन्नमिति पचेलिम:-अग्निः, आदित्यः, अश्वश्च । भिपी विदारणे, भिदेलिम:तस्करः । आदिशब्दात् दृश प्रेक्षणे, दृशेलिमम् अदं प्सांक् भक्षणे, अदेलिमम् । हनंक हिंसागत्योः, घ्नेलिमम् । डुयाचूग याच्यायाम, याचेलिमम् । पांक रक्षणे, पेलिमम् । कृग करणे, केलिमम इत्यादयो भवन्ति ।। ३५४ ।