________________
सूत्र- ३२८-३३६ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ३८७
नुनाद: । जनैचि प्रादुर्भावे, जम्भ:- दानवः, दन्तश्च, जम्भा - मुखविदारणम् । ऋक् गतो, अर्भ: - शिशुः । दलण् विदारणे, दल्भः ऋषिः, वल्कलं, विदारणं च ॥ ३२७ ।।
इणः कित् ॥ ३२८ ॥
sue गती, इत्यस्मात् किद् भः प्रत्ययो भवति । इभः - हस्ती ॥ ३२८ ॥
कृ-श-गृ-शलि-कलि-कडि-गर्दि - रसि-रमि- वडि वल्लेरभः ॥ ३२६ ॥
एभ्यः अभः प्रत्ययो भवति । कृत् विक्षेपे, करभः - त्रिवर्ष उष्ट्रः । शूश् हिंसायाम्, शरभः-श्वापदविशेषः । गृत् निगरणे, गरभ:- उदरस्थो जन्तुः । पल - फल-शल-गती, शलभः–पतङ्गः । कलि शब्दसंख्यानयोः, कलभः हस्ती यौवनाभिमुखः । कडत्-मदे, - हस्तिपोतकः । गर्द शब्दे, गर्दभः खरः । रासृङ् शब्दे, रासभः स एव । रमिं क्रीडायास्, रमभः - प्रहर्षः । वडः सौत्रः, वडभीवेश्माग्रभूमिका । ऋफिडादित्वाल्लत्वे वलभी । वल्लि संवरणे, वल्लभः - स्वामी, दयितश्च ।। ३२९ ।।
कडभः
सनेति ॥ ३३० ॥
षण् भक्तौ इत्यस्मात् डिद् अभः प्रत्ययो भवति । सभा परिषत्, शाला च ॥ ३३० ॥ ऋषि-वृषि-लुसिभ्यः कित् ॥ ३३१ ॥
एभ्यः कि अभः प्रत्ययो भवति । ऋषैत् गतो, वृषू सेचने, ऋषभः वृषभश्च पुङ्गवः, भगवांश्चादितीर्थंकरः । ऋषभः- वायुः । लुसिः सौत्रः, लुसभ: - हिंस्रः, मत्तहस्ती, वनं च ।। ३३१ ॥
सि टिकिभ्यामिभः सैर-टिट्टौ च ॥ ३३२ ॥
आभ्याम् इभः प्रत्ययो भवति । दन्त्यादिः सैर: टिट्टश्चादेशौ यथासंख्यं भवतः । षट् बन्धने, सैरिभ:- महिषः । टिकि गतौ, टिट्टिभः - पक्षी ।। ३३२ ।।
ककेरुभः ॥ ३३३ ॥
ककि लौल्ये, इत्यस्माद् उभः प्रत्ययो भवति । ककुभः - अर्जुनः ।। ३३३ ।। कुकेः कोऽन्तश्च ॥ ३३४ ॥
कुकि आदाने, इत्यस्माद् उभः प्रत्ययो भवति, ककारश्चान्तादेशो भवति । कुक्कुभः - पक्षिविशेषः ।। ३३४ ॥
दमो दुण्टू च || ३३५ ||
दमूच् उपशमे, इत्यस्माद् उभः प्रत्ययो भवत्यस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुण्ड् इत्यादेशो भवति । दुण्डुभ: - निर्विषाहिः ।। ३३५ ।।
कृ- कलेरम्भः ॥ ३३६ ॥