________________
३५६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-३२१-३२७
चक्राङ्ग च । स्तम्भेलुक च । स्तम्बः-तृणं, विटपः, संघातः, अङ कुरसमुदायः, स्तबकः, पुष्पापीडश्च । आदिग्रहणात् कुशाम्बादयो भवन्ति ॥ ३२० ॥
क-कडि-कटि-वटेरम्बः ॥३२१ ॥ ___ एभ्यः अम्बः प्रत्ययो भवति । डुकृग करणे, करम्बः-दध्योदनः, दघिसक्तवः, पुष्पं च । कडत् मदे, कडम्बः-जातिविशेषः, जनपदविशेषश्च । कटे वर्षावरणयोः, कटम्ब:पक्वान्नविशेषः, वादित्रं च । कडम्ब-कटम्बौ वृक्षौ च । वट वेष्टने, वटम्बः-शैलः, तृणपुजश्च ।। ३२१ ॥
कदेर्णिद्वा ॥ ३२२॥
कद वैक्लव्ये, इति सौत्राद् अम्बः प्रत्ययो भवति, स च णिद्वा भवति । कादम्बःहंसः । कदम्बः-वृक्षजातिः॥ ३२२ ।।
शिल-विलादेः कित् ॥ ३२३॥
शिलादिभ्यः किद् अम्बः प्रत्ययो भवति । शिलत् उञ्छे, शिलम्बः-ऋषिः, तन्तुवायश्च । विलत् वरणे, विलम्बः-वेषविशेषः, रङ्गावसरश्च । आदिग्रहणादन्येऽपि ॥३२३।
हिण्डि-विलेः किम्बो नलुक् च ॥ ३२४ ॥
आभ्यां किद् इम्बः प्रत्ययो भवति, नस्य च लुग् भवति । हिडुड् गतो, विलत् वरणे, हिडिम्बः-विलिम्बश्च राक्षसौ ॥ ३२४ ।।
डी-नी-बन्धि-शृधि-चलिभ्यो डिम्बः ॥ ३२५ ॥
एभ्यः डिद् इम्बः प्रत्ययो भवति । डीङ विहायसा गती, डिम्ब:-राजोपद्रवः । णींग प्रापणे, निम्बः-वृक्षविशेषः । बन्धंश् बन्धने, बिम्ब-प्रतिच्छन्दः, देहश्च, बिम्बीवल्लिजातिः । शृघूड् शब्दकुत्सायाम् । शिम्बः-मृगजातिः। शिम्बी-निष्पाववल्लो च । चल कम्पने, चिम्बा-यवागूजातिः ।। ३२५ ॥
कुट्युन्दि-चुरि-तुरि-पुरि-मुरि-कुरिभ्यः कुम्बः ।। ३२६ ॥
एभ्यः किद् उम्बःप्रत्ययो भवति । कुटत् कौटिल्ये, कुटुम्ब-दारादयः । उदैप् क्लेदने, उदुम्बः-समुद्रः । चुरण स्तेये । तुरण त्वरणे, सौत्रः, चुरुम्बः तुरुम्बश्च-गहनम् । पुरत् अग्रगमने, पुरुम्ब:-आहारः। मुरत् संवेष्टने, मुरुम्बः-मृद्यमाणपाषाणचूर्णम् । कुरुत् शब्दे, कुरुम्बः-अङकुरः । निपूर्वात् निकुरुम्बः-राशिः ।। ३२६ ॥
ग-द-रमि-हनि-जन्यर्ति-दलिभ्यो भः ॥ ३२७ ॥
एभ्यो भः प्रत्ययो भवति । गत् निगरणे, गर्भः-जठरस्थः प्राणी । दृश् विदारणे, दर्भ:-कुशः । रमि क्रीडायाम, रम्भा-अप्सराः, कदली च । हनक हिंसागत्योः, हम्भा-गोधे.