________________
सूत्र-२७०-२७५ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३७९
वश्च । जि अभिभवे, जयनम्-ऊर्णापटः । टुमस्जत् शुद्धौ, मज्जनं-स्नानं, तोयं च । देवृह देवने, देवन:-अक्षः, कितवश्च । स्यन्दौङ स्रवणे, स्यन्दनः- रथः । चदु-दोप्त्यालादनयोः, चन्दनं-गन्धद्रव्यम् , मदुङ स्तुत्यादौ, मन्दनम्-स्तोत्रम् । मडु भूषायाम् , मण्डनम् अलंकारः । मदैच हर्षे, मदनः-वृक्षः, कामः, मधूच्छिष्टं च । दहं भस्मीकरणे, दहनः अग्निः । वहीं प्रापणे, वहनं-नौः । आदिग्रहणात् पचेः पचन:-अग्निः । पुनाते:, नयनं पवन: वायः । बिभर्तेः भरणं-साधनम् । नयतेः नयनं-नेत्रम् । धुतेः, द्योतनः-सूर्यः। रचेः, रचनावैचित्र्यम् । गृजेः-गृञ्जनम्-अभक्ष्यद्रव्यविशेषः । प्रस्कन्दनः, प्रपतन: इत्यादयो भवन्ति ।। २६९ ॥
अशो रश्चादौ ॥ २७० ॥
अशौटि व्याप्ती, इत्यस्माद् अनः प्रत्ययो भवति रेफश्चादी भवति । रशना मेखला। रशिमेके प्रकृतिमुपादिशन्ति, सा च राशिः, रशना, रश्मिः इत्यत्र प्रयुज्यत इत्याहुः ।। २७० ॥
उन्देर्नलुक् च ॥ २७१ ॥ ___ उन्दैप् क्लेदने, इत्यस्माद् अनः प्रत्ययो भवति, नलोपश्च भवति । ओदन:भक्तम् ॥ २७१ ॥
हनेतजधौ च ॥ २७२ ।।
हनंक हिंसागत्योः, इत्यस्माद् अनः प्रत्ययो भवति, घतजघावित्यादेशौ चास्य भवतः । घतनः रङ्गोपजीवी, पापकर्मा, निर्लज्जश्च । जघनं श्रोणिः ॥ २७२ ।।
तुदादि-वृजि-रञ्जि-निधाभ्यः कित् ॥ २७३ ।।
एभ्यः किद् अनः प्रत्ययो भवति । तुदीत् व्यथने, तुदनः । क्षिपीत् प्रेरणे क्षिपणः । सुरत् ऐश्वर्यदीप्त्योः , सुरणः । बुधिच् ज्ञाने, बुधनः। षिवूच् उतौ, सिवनः । एषां यथासंभवं कारकमच्यते । लबङ अवस्रसने, लम्बनः-शनिः । वकि वर्जने, वजिनम-अन्तरिक्षम् , निवारणं, मण्डनं च । रञ्जी रागे, रजनं-हरिद्रा । महारजनं-कुसुम्भम् , रजनःरङ्गविशेषः । डुधांग्क् धारणे च । निधनम्-अवसानम् ।। २७३ ।।
सू-धृ-भू-भ्ररिजम्यो वा ॥ २७४ ॥
एभ्यः अनः प्रत्ययो भवति, स च किद्वा भवति षूत् प्रेरणे, सुवन:-अङ कुरः, आदित्यः, प्रादुर्भावश्च, सुवनं-चन्द्रप्रभा, सवन-यज्ञः पूर्वाह्णापराह्ममध्याह्नकालश्च । विषवणम् । धूत विधूनने, धुवनः धूमः, वायुः, अग्निश्च, धुवनम्-एषः, धवनम् । भू सत्तायाम् , भुवनं-जगत् , भवनं-गृहम् , भ्रस्जीत् , पाके, भृज्जनम् अन्तरीक्षम् , अम्बरीषः, पाकश्च । भ्रज्जनः-पावकः ।। २७४ ।।
विदन-गगन-गहनादयः॥ २७५ ॥