SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३७८ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [सूत्र-२६२-२६६ सेर्वा ॥ २६२ ॥ पिंग्ट् बन्धने, इत्यस्माद् नः प्रत्ययो भवति, स च किद्वा भवति । सिनः कायः, वस्त्रं, बन्धश्च । सेना-चमूः ।। २६२ ॥ सोरू च ॥ २६३ ॥ पुग्ट् अभिषवे, इत्यस्मान्नः प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति । सूनाघातस्थानम् , दुहिता, पुत्रः,प्रकृतिः, आघाटस्थानं च ।। २६३ ॥ रमेस्त् च ।। २६४ ॥ रमि क्रीडायाम् इत्यस्माद् नः प्रत्ययो भवति, तश्चान्तादेशो भवति । रत्नंवज्रादिः॥ २६४ ॥ क्रुशेवृद्धिश्च ।। २६५ ॥ क्रुशं आह्वानरोदनयोः, इत्यस्माद् नः प्रत्ययो भवत्यस्य च वृद्धिर्भवति । क्रोश्न:श्वापदः ।। २६५ ।।: घ-सु-निभ्यो माङोडित् ॥ २६६ ॥ द्यसुनिपूर्वात् मांङ क् मानशब्दयोः, इत्यस्मात् डिद् नः प्रत्ययो भवति । द्युम्नंद्रविणंम् , सुम्न-सुखम् निम्नं नतम् ।। २६६ ।। शीङः सन्वत् ॥ २६७ ॥ -- । .. - शोङ क् स्वप्ने इत्यस्मात् , डिद् नः प्रत्ययो भवति स च सन्वद्भवति । शिश्नशेषः ।। २६७ ॥ दिन-नग्न फेन-चिह्न-बध्न-धेन-स्तेन-च्योक्नादयः ॥ २६८॥ एते नप्रत्ययान्ता निपात्यन्ते । दिव्यते किल्लुक च, दिनम्-अहः । अञ्पूर्वात् वसेर्गोऽन्तो धातोलुंक्च । न वस्ते, नग्न:-अवसनः । फणेः, फलेः स्फायेर्वा फेभावश्च, फेन:-बुबुदसंघातः। चहेरिच्चोपान्त्यस्य, चिह्नम्-अभिज्ञानम् । बन्धेबंध्च । ब्रन:-रविः, प्रजापतिः, ब्रह्मा, स्वर्गः, पृष्ठान्तश्च । धयतेरेत्वं च, धेना-सरस्वती, माता च, धेन: समुद्रः, ईत्वं चेत्येके, धीना । स्त्यायेस्ते च स्तेनः चौरः, च्यवतेवृद्धिः कोऽन्तश्च । च्योक्नम् अक्षस्थानम् , अनुजः, क्षीणपुण्यश्च । च्योक्नी-कांस्यादिपात्री । आदिशब्दादन्येऽपि ।। २६८ ॥ स्वसि-रसि--रुचि-जि-मस्जि-देवि-स्यन्दि चन्दि-मन्दि-मण्डि-मदि-दहि-वह्या. . देरनः ॥ २६६ ।। एभ्यः अनः प्रत्ययो भवति । युक् मिश्रणे, यवनाः जनपदः, यवनं मिश्रणम् । अस्च् क्षेपणे, असन:-बीजकः, रसण आस्वादनस्नेहनयोः, रसनाजिह्वा । रुचि अभिप्रीत्यां च, रोचना-गोपित्तम् , रोचन:-चन्द्रः, विपूर्वात् , विरोचन:-अग्नि:, सूर्यः, इन्दुः, दान
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy