________________
सूत्र-२५४-२६१ ]
स्वपज्ञोणादिगणसूत्रविवरणम्
[ ३७७
आरगेधः ॥ २५४॥
आङ पूर्वात् रगे शङ्कायाम् , इत्यस्माद् वधः प्रत्ययो भवति । आरग्वधःवृक्षजातिः ।। २५४ ।।
परात् श्री डित् ॥ २५५ ॥
परपूर्वात् शृश् हिंसायाम् , इत्यस्मात् , डित् वधः प्रत्ययो भवति । परश्वधःआयुधजातिः॥२५५ ।।
इषेरुधक् ॥ २५६ ॥ इषत् इच्छायाम् इत्यस्माद् उधक् प्रत्ययो भवति । इषुधः-याञ्चा ।। २५६ ॥ कोरन्धः॥ २५७ ॥ कुङ शब्दे, इत्यस्माद् अन्धः प्रत्ययो भवति । कवन्धः-छिन्नमूर्धा देहः ।। २५७ ।। प्या-धा-पन्यनि-स्वदि-स्वपि-वस्यज्यति-सिविभ्यो नः॥ २५८ ॥
एभ्यो नः प्रत्ययो भवति । प्यङ वृद्धौ, प्यानः-समुद्रः चन्द्रश्च । डुधांग्क् धारणे च, घाना-भृष्टः यवः, अङकुरश्च । पनि स्तुती, पन्न-नीचैः करणम् , सृन्नं, जिह्वा च । अनक् प्राणने, अन्न-भक्तम् , आचारश्च । ष्वदि आस्वादने, स्वन्न-रुचितम् । निष्वपंक् शये, स्वप्नः मनोविकारः, निद्रा च । वसं निवासे, वस्न-वासः, मूल्यम् , मेढ़म् , आगमश्च । अज क्षेपणे च, वेनः-प्रजापतिः, ध्यानी, राजा, वायुः यज्ञः, प्राज्ञः, मूर्खश्च । अत सातत्यगमने, अत्न:-आत्मा, वायुः, मेघःप्रजापतिश्च । षिवूच उतो, स्योनं सुखम् , तन्तुवाय. सूत्रसंतानः, समुद्रः, सूर्यः, रश्मिः , आस्तरणं च ।। २५८ ॥
षसेर्णित् ॥ २५ ॥
षसक् स्वप्ने इत्यस्मात् णिद् नः प्रत्ययो भवति । सास्ना-गोकण्ठावलम्बि चर्म, निद्रा च ॥ २५६ ॥
रसेर्वा ॥ २६० ॥ . रस शब्दे, इत्यस्माद् न प्रत्ययो भवति, स च णिद् वा भवति । रास्ना-धेनुः औषपिजातिश्च । रस्नं-द्रव्यजातिः, रस्ना-जिह्वा, रस्नः-तुरङ्गः, दण्डश्च ।। २६० ।।
जीण-शी-दी-बुध्यवि-मीभ्यः कित् ॥ २६१ ॥
एभ्यः किद् न: प्रत्ययो भवति । जि अभिभवे, जिन:-अर्हन् , बुद्धश्च । इंण्क गतो, इनः-स्वामी, संनिपातः, ईश्वरः, राजा, सूर्यश्च । शी स्वप्ने, शीनः पीलुः । दीङ्च क्षये । दीनः, कृपणः, खिन्नश्च । बुधिच ज्ञाने, बुध्नः-मूलं, पृष्ठान्त:, रुद्रश्च । भव रक्षणादौ, ऊनम्-अपरिपूर्णम् । मीङ व् हिंसायाम् , मीन:-मत्स्यः , राशिश्च ।। २६१॥