________________
३७६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-२४५-२५३
ककि-मकिभ्यामन्दः ॥ २४५॥
आभ्यामन्दः प्रत्ययो भवति । ककि लौल्ये। मकिः सौत्रः । ककन्दः मकन्दश्च राजानौ, यकाभ्यां निर्वृत्ता काकन्दी, माकन्दी च नगरी ॥ २४५ ।।
कल्यलि-पुलि-कुरि-कुणि-मणिम्य इन्दक् ॥ २४६ ॥
एभ्य इन्दक् प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कलिन्दः पर्वतः यतो यमुना प्रभवति । अली भूषणादौ, अलिन्दः प्रघाणः, भाजनस्थानं च । पूल महत्त्वे, पूलिन्द:शबरः। कुरत् शब्दे, कुरिन्दः-धान्यमलहरणोपकरणम् , तेजनोपकरणं च । कुणत् शब्दोपकरणयोः, कुणिन्दः-म्लेच्छः, शब्द उपकरणं च । मण शब्दे, मणिन्दः-अश्वबल्लवः।२४६।
कुपेवं च वा ॥ २४७॥
कुपच् क्रोधे, इत्यस्माद् इन्दक् प्रत्ययो भवति । वश्चान्तादेशो वा भवति । कुपिन्दः, कुविन्दः-तन्तुवायः ।। २४७ ॥
पपलिभ्यां णित् ॥ २४८ ।।
आभ्यां णिद् इन्दक् प्रत्ययो भवति । पश् पालनपूरणयोः, पल गतौ, पारिन्दः, पलिन्दः, द्वावपि वृक्षगाथको, पारिन्द:-मुख्यः, पूज्यश्च । पालिन्दो-नृपतिः, रक्षकश्चेत्येके ।।२४८॥
यमेरुन्दः ।। २४६ ॥ यमूं उपरमे, इत्यस्माद् उन्दः प्रत्ययो भवति । यमुन्द:-क्षत्रियविशेषः ।।२४९।। मुचेडुकुन्द-कुकुन्दौ ॥ २५० ॥
मुच्लुती मोक्षणे, इत्यस्मात् डित् उकुन्दः किदुकुन्दश्च प्रत्ययो भवतः । मुकुन्दः विष्णुः, मुचुकुन्दः-राजा, वृक्षविशेषश्च ।। २५० ।।
स्कन्द्यमिभ्यां धः ॥ २५१ ॥
आभ्यां धः प्रत्ययो भवति । स्कन्द गतिशोषणयोः, स्कन्धः-बाहुमूर्धा, ककुन्दंविभागश्च । बाहुलकाद् दस्य लुक् । अम गती, अन्धः-चक्षुर्विकलः ।। २५१ ॥
ने स्यतेरधन ।। २५२ ॥
निपूर्वात् षोच् अन्तकर्मणि, इत्यस्माद् अधक् प्रत्ययो भवति । निषधः पर्वतः, निषधाः जनपदः ।। २५२ ॥
मङ्गे लुक् च ॥ २५३ ॥
मगु गतो, इत्यस्माद् अधक् प्रत्ययो भवति, नकारस्य च लुग भवति । मगधाः जनपदः ॥ २५३ ॥