________________
३८० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-२७६-२८१
एते किदनप्रत्ययान्ता निपात्यन्ते । बिदु अवयवे नलोपश्च, बिदनः गोत्र कृत् । गमेग च, गगनम्-आकाशम् । गाहौङ विलोडने, ह्रस्वश्च, गहनं दुर्गमम् । आदिग्रहणात् काञ्चनकाननादयो भवन्ति ।। २७५ ।।
संस्तु-स्पृशि-मन्थेरानः ॥ २७६ ॥
संपूर्वात् स्तोः स्पृशेश्च सन् पूर्वाभ्यां वा स्तु-स्पृशिभ्यां मन्थेश्च आन: प्रत्ययो भवति । ष्टुंग्क् स्तुतौ संस्तवान:-सोम, होता, महर्षिः, वाग्मी च । स्पृशंत् स्पर्श, स्पर्शानःमनः, अग्निश्च । मन्थश् विलोडने, मन्थानः खजकः ।। २७६ ।।
यु-युजि-युधि बुधि मृशि-दृशीशिभ्यः कित् ॥ २७७ ।।
एभ्यः किद् , आनः प्रत्ययो भवति । युक् मिश्रणे, युवान:-तरुणः । युजपी योगे, युजानः सारथिः । युधिच संप्रहारे युधानः-रिपुः । बुधिच ज्ञाने, बुधानः-आचायः, पण्डितो वा। मृशंत् आमर्शने, मृशानः-विमर्शकः। दृशृप्रेक्षणे, दृशान: लोकपालः । युजादिप्रसिद्धकों एते। ईशिक् ऐश्वर्ये, ईशानः-ईश्वरः ।। २७७ ॥ .
मुमुचान-युयुधान-शिश्विदान-जुहुराण-जिहियाणाः ॥ २७८ ॥
एते किद् आनप्रत्ययान्ता निपात्यन्ते । मुचेद्वित्वं च, मुमुचान: मेघः । एवं युधिंच संप्रहारे, युयुधानः साहसिकः, राजा च कश्चित् । श्विताङ वर्णे, अस्य दश्च, शिश्विदानःदुराचारो द्विजः । हुर्छा कौटिल्ये, अस्यान्तलुक च, जुहुराण:-कठिनहृदयः, कुटिल:, अग्निः, अध्वर्युः, अनड्वांश्च । ह्रींक् लज्जायाम् , जिहियाणः, नीतिमान् । सर्वे एवैते मुच्यादिप्रसिद्धक्रियाकर्तृवचना इत्येके । अन्ये तु मुमुक्षादिसन्नन्तप्रकृतीनामेतन्निपातनं, तेन सन्नन्तक्रियाकर्तृवचना इत्याहुः ।। २७८ ॥
ऋञ्जि-रञ्जि-मन्दि-सह्यहिभ्योऽसानः ।। २७६ ॥
एभ्यः असानः प्रत्ययो भवति । ऋजुङ भर्जने, ऋजसान:-महेन्द्रः, मेघः, श्मशानं च । रञ्जी रागे, रञ्जसान:-मेघः, धर्मश्च । मदुङ् स्तुत्यादिषु, मन्दसानः-हंसः, चन्द्रः, सूर्यः, जोवः, स्वप्नः, अग्निश्च । षहि मर्षणे, सहमानः दृढः, मयूरः, यजमानः, क्षमावांश्च । अर्ह पूजायाम् , अर्हसान: चन्द्रः, तुरङ्गमश्च ।। २७६ ।।
रुहि-यजेः कित् ॥ २८० ।।
आभ्यां किद् असानः प्रत्ययो भवति । रुहं जन्मनि, रुहसानः-विटपः। यजी देवपूजासंगतिकरणदानेषु, इजसानः-धर्मः ।। २८० ।।
वृधेवों ॥ २८१॥
वृधेः असानः प्रत्ययो भवति, स च किद्वा भवति । वृधूड वृद्धो, वृधसानः-गर्भः । वर्धसान:-गिरिः, मृत्युः, गर्भः, पुरुषश्च ।। २८१ ।।