SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ सूत्र - २०८-२१५ ] स्वोपज्ञोणादिगण सूत्र विवरणम् [ ३७१ पृषि रञ्जि-सिकिका-ला- नृभ्यः कित् ॥ २०८ ॥ एभ्यः किदु अतः प्रत्ययो भवति । पृषू सेचने, पृषतः - हरिणः । रञ्जीं रागे, रजतंरूप्यम् । सिकिः सौत्रः, सिकता वालुका । कैं शब्दे, कतः - गोत्रकृत् । लांक् आदाने, लतावल्ली । वृट् वरणे, व्रतं - शास्त्रविहितो नियमः ॥ २०८ ॥ कृ - - कल्यलि-चिलि-विलीलि-ला - नाथिभ्य आतंकू ॥ २०६ ॥ एम्य आत प्रत्ययो भवति । कृत् विक्षेपे, किरातः - शबरः । वृग्ट् वरणे, व्रातःसमूहः, उत्सेधजीविसंघश्च । कलि शब्दसंख्यानयोः, कलातः ब्रह्मा । अली भूषणादो, अलातम् - उल्मुकम् । चिलत् वसने, चिलाता :- म्लेच्छाः । विलत् वरणे, विलातः- शवाच्छादनवस्त्रम् । इलत् गत्यादी इलातः-नगः । लांक आदाने, लातः- मृत्तिकादानभाजनम् । नाथ उपतापैश्वर्याशीषु च । नाथातः - आहारः, प्रजापतिश्च ।। २० ।। ह-श्या - रुहि शोणि-पलिभ्य इतः ॥ २१० ।। एम्य: इतः प्रत्ययो भवति । हृग् हरणे, हरितः वर्णः । श्यैङ् गतो, श्येत:-वर्णः, मृग:, मत्स्यः श्येनश्च । रुहं जन्मनि, रोहितः वर्णः, मत्स्यः, मृगजातिश्च । लत्वे लोहितः वर्णः, लोहितम् असृक् । शोण वर्णगत्योः, शोणितं रुधिरम् । पल गतौ, पलितंश्वेतकेशः ।। २१० ॥ ।। २११ ॥ नञ आपेः || २११ ॥ पूर्वाद् आप्लृट् व्याप्ती, इत्यस्माद् इतः प्रत्ययो भवति । नापितः कारुविशेषः क्रुशि- पिशि- पृषि - कृषि - कुस्युचिभ्यः कित् ॥ २१२ ॥ एभ्यः क इतः प्रत्ययो भवति । कुशं आह्वानरोदनयो: क्रुशितं पापम् । विशत् अवयवे, पिशितंमांसम् । पृषू सेचने, पृषितं वारिबिन्दुः । कुष्श् निष्कर्षे, कुषितं पापम् । कुशच् श्लेषे, कुशितः ऋषिः, कुशितम्-ऋणं, श्लिष्टं च । उचच् समवाये, उचितं - स्वभावः योग्यं, चिरानुयातं, श्रेष्ठं च ।। २१२ ।। हग ईत ॥ २१३ ॥ हृग् हरणे, इत्यस्माद् ईतण् प्रत्ययो भवति । हारीतः - पक्षी, ऋषिश्च ।। २१३ ॥ अदो भुवो डुतः ।। २१४ ॥ अपूर्वात् भुवो डुतः प्रत्ययो भवति । अद् विस्मितं भवति तेन तस्मिन् वा मनः अद्भुतम् आश्चर्यम् ।। २१४ ।। कुलि-मयिभ्यामृतक् ॥ २१५ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy