________________
३७२ ]
स्वोपज्ञोणादिगण सूत्रविवरणम्
[ सूत्र- २१६-२२१
आभ्यां ऊतक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयो:, कुलूता - जनपदः मयि गतौ, मयूता - वसतिः ।। २१५ ।।
जीवेर्मश्च ॥ २१६ ॥
जीव प्राणधारणे, इत्यस्माद् ऊतक् प्रत्ययो भवति, मश्चान्तादेशश्च । जीमूत : - मेध:, गिरिश्च ।। २१६ ॥
कबेरोतः प् च ।। २१७ ॥
कबृङ वर्णे, इत्यस्माद् ओतः प्रत्ययो भवति, पश्चान्तादेशो भवति । कपोतःपक्षी, वर्णश्च ।। २१७ ॥
आस्फायेडिंत् ॥ २१८॥
आङपूर्वात् स्फायैङ वृद्धौ इत्यस्मात् डि ओतः प्रत्ययो भवति । आस्फोतानाम औषधिः || २१८ ।।
- विशिभ्यामन्तः ॥ २१६ ॥
आभ्यां अन्तः प्रत्ययो भवति । नृष्च् जरसि, जरन्तः- भूतग्रामः, वृद्धः, महिषश्च । विशत् प्रवेशने, वेशन्तः- पल्वलम् । वल्लभः - अप्राप्तापवर्ग, आकाशं च ॥ २१९।।
रुहि नन्दि - जीवि प्राणिभ्यष्टिदाशिषि ॥ २२० ॥
एभ्य आशिषि दिन्तः प्रत्ययो भवति । रुहं जन्मनि, रोहतात् रोहन्त:- वृक्षः, रोहन्ती - औषधिः । टुनदु समृद्धी, नन्दतात् नन्दन्तः - सखा, आनन्दश्च नन्दन्ती सखी । जीव प्राणधारणे, जीवतात् जीवन्त: आयुष्मान्, जीवन्ती शाक: । अनक् प्राणने, प्राण्यात् प्राणन्तः- वायुः, रसायनं च प्राणन्ती स्त्री ।। २२० ।।
तृ-जि--भू-- वदि-वहि-- त्रसि-- भास्यदि - साधि-मदि - गडि-गण्डि -- मण्डि -- नन्दिरेविभ्यः ॥ २२१ ॥
1
एभ्यष्टिदन्तः प्रत्ययो भवति । आशिषीत्येके । तू प्लवनतरणयोः, तरन्तःआदित्यः, भेकश्च, तरन्ती स्त्री । जि अभिभवे । जयन्तः - रथरेणुः, ध्वजः इन्द्रपुत्रः, जम्बूद्वीपपश्चिमद्वारम् पश्चिमानुत्तरविमानं च, जयन्ती - उदयनपितृष्वसा । भू सत्तायाम्, भवन्तः कालः, भवन्ती । वद व्यक्तायां वाचि वदन्तः, वदन्ती । वहीं प्रापणे, वहन्त:रथः, अनड्वान् रथरेणु, वायुश्च वहन्ती । वसं निवासे, वसन्तः ऋतुः । भासि दीप्तो, भासन्त: सूर्य:, भासन्ती, ण्यन्तोऽपि भासयन्तः - सूर्यः । अदं भक्षणे, अदन्तः, अदन्ती । साधं संसिद्धौ, साधन्तः - भिक्षुः ण्यन्तोऽपि साधयन्तः भिक्षुः साधयन्ती । मदैच् हर्षे, णौ, मदयन्तः, मदयन्ती- पुष्पगुल्मजातिः । गड सेचने, गडन्तः- जलदः, ण्यन्तोऽपि, गडयन्तः, गडयन्ती । गडु वदनैकदेशे, ण्यन्तः, गण्डयन्तः - मेषः । मडु भूषायाम्, ण्यन्तः, मण्डयन्तः