SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ सूत्र-१८५-१८९ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [३६७ → गतौ, इत्यस्मात् णः प्रत्ययो भवति, स च किद्वा भवति । द्रुणा-ज्या, द्रोण:चतुराढकं, पाण्डवाचार्यश्च । द्रोणी नौः, गौरादित्वात् डीः ।। १८४ ।। स्था-क्ष-तोस्च्च ।। १८५॥ एभ्यो णः प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति । ष्ठां गतिनिवृत्ती, स्थूणा तन्तुधारिणी, गृहधारिणी, शरीरधारिणी, लोहप्रतिमा, व्याधिविशेषश्च । टुक्षुक् शब्दे, सूणम्-अपराधः । तुक वृत्त्यादिषु, तूण:-इषुधिः ।। १८५ ॥ भ्रूण तृण-गुण-कार्ण-तीक्ष्ण-श्लक्ष्णाभीक्ष्णादयः ॥ १८६ ।। एते णप्रत्ययान्ता निपात्यन्ते । भृगो 5 च भ्रूणः-निहीनः, अर्भकः, स्त्रैणगर्भश्च । तरते ह्रस्वश्च, तृणं-शष्पादि । गायतेर्गमे गातेर्वा गुभावश्च, गुणः-उपकारः, आश्रितः, अप्रधान, ज्या च। कृगो वृद्धिः कोऽन्तश्च, कार्ण:-शिल्पी। तिजेर्दीर्घः सश्च परादिः तीक्ष्णं-निशितम् । श्लिषे: सोऽन्तोच्चेतः श्लक्ष्णम्-अकर्कशं, सूक्ष्मं च । अभिपूर्वादिषे: किच्च सोन्तः अभोणम्-अजस्रम् । आदिग्रहणादन्येऽपि ॥ १८६ ॥ तृ-कृ-श-प-भृ वृ-श्रुरु-रुहि- लक्षि--विचक्षि-चुक्कि-चुक्ति--तङ्गथङ्गि-मङ्कि-कङ्कि चरि-समीरेरणः ॥ १८७॥ एभ्योऽणः प्रत्ययो भवति । तृ प्लवनतरणयोः, तरणम् । कृत् विक्षेपे, करणम् । शृश् हिसायाम् , शरणं गृहम् । पृश् पालनपूरणयोः, परणम् । टुडुइंग्क पोषणे च, भरणम् । वृन्ट वरणे, वरणः-वृक्षः, सेतुबन्धश्च । वरणं-कन्याप्रतिपादनम् । श्रृंट् श्रवणे, श्रवण:--कर्णः, भिक्षुश्च । रुक् शब्दे, रुंड् रेषणे वा, रवणः-करभः, अग्निः, द्रुमः, वायुः, भृङ्गः, शकुनिः, सूर्यः, घण्टा च । रुहं जन्मनि, रोहणः-गिरिः। लक्षीण् दर्शनाङ्कनयोः, लक्षणं-व्याकरणम् , शुभाशुभसूचकं मषीतिलकादि अङ्कनं च । चक्षिक व्यक्तायां वाचि, विचक्षणः-विद्वान् । चुक्कण् व्यथने, चुक्कणः-व्यायामशीलः । बुक्क भाषणे, बुक्कणः-श्वा, वावदूकश्च । तगु गतौ, तङ्गणा:-जनपदः । अगु गतौ, अङ्गणम्-अजिरम् । मकुङ मण्डने, मङ्कण:-ऋषिः । ककुङ गतौ, कङ्कणं-प्रतिसरः । चर भक्षणे च, चरणः पादः । ईरिक् गतिकम्पन योः सम्पूर्वः, समीरणः वातः ।। १८७ ।। क-ग-ए-कृषि-वृषिभ्यः कित् ॥ १८ ॥ एभ्यः किद् अणः प्रत्ययो भवति । कृत् विक्षेपे, किरण:-रश्मिः । गृत् निगरणे, गिरणः-मेघः, आचार्यः, ग्रामश्च । पृश् पालनपूरणयोः, पुरणः-समग्रयिता, समुद्रः पर्वतविशेषश्च । कृपौङ सामर्थ्य , कृपणः कीनाशः । वृष् सेचने, वृषणः-मुष्कः॥ १८ ॥ धृषि-वहेरिश्वोपान्त्यस्य ॥ १८ ॥ आभ्यां किद् अणः प्रत्यय इच्चोपान्त्यस्य भवति । त्रिभूषाट् प्रागल्भ्ये, धिषणःबृहस्पतिः, धिषणा-बुद्धिः । वहीं प्रापणे, विहण:-ऋषिः, पाठश्च ।। १८६ ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy