SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ३६६ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ सूत्र-१७७-१८४ लगेरुडः || १७७ || लगे सङंगे इत्यस्मात् उडः प्रत्ययो भवति । लगुड : यष्टि: । गु-ज् उडो विहित एव ।। १७७ ।। गृ-ज-दृ-वृ-भृभ्यस्तु कुशेरुण्डकू ।। १७८ ।। कुशच् श्लेषे, इत्यस्मात् उण्डक् प्रत्ययो भवति कुशुण्डः - वपुष्मान् ।। १७८ ॥ शमिषणिभ्यां ढः ॥ १७६ ॥ आभ्यां ढः प्रत्ययो भवति । शमूच् उपशमे, शण्ढ ::- नपुंसकम् । षन भक्तौ षण्ढ :स एव । बाहुलकात् सत्वाभावः ॥ १७६ ॥ कुणेः कित् ॥ १८० ॥ कुणत् शब्दोपकरणयोः, इत्यस्मात् कित् ढः प्रत्ययो भवति । कुण्ठ:- धूर्तः । बाहुलकान दीर्घः ।। १८० ।। नञः सहेः पा च ॥ १८१ ॥ नञपूर्वात् षहि मर्षणे, इत्यस्मात् ढः प्रत्ययो षा चास्यादेशो भवति । अषाढानक्षत्रम् ।। १८१ ॥ इणुर्वि-शा-वेणि-पु-कु-वृ-तृ-ज़-ह-सृपि-पणिभ्यो णः ॥ १८२ ॥ णः प्रत्ययो भवति । इंणक् गतौ, एण:- कुरङ्गः । उर्वे हिंसायाम्, उर्णामेषादिलोम, भ्रुवोरन्तरावर्तश्च । शोंच् तक्षणे, शाण:- परिमाणम्, शस्त्र तेजनं च । वेणुग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु, वेण्णा कृष्णवेण्णा च नाम नदी । पृश् पालनपूरणयोः, पर्णं- पत्त्रं, शिरश्च । कृत् विक्षेपे, कर्णः - श्रवणं कौन्तेयश्च । वृग्श् वरणे, वर्ण:शुक्लादि:, ब्राह्मणादि, अकारादिः, यशः स्तुतिः, प्रकारश्च । तू प्लवनतरणयो:, तर्ण:वत्सः । जृष्च् जरसि, जर्णः - चन्द्रमाः, वृक्षः, कर्कः, क्षयधर्मा, शकुनिश्च । दृङतु बदरे, दर्णः-पर्णम् । सृप्लृ ं गतौ, सवर्णः - सरीसृपजातिः । पणि व्यवहारस्तुत्योः, पण्णम्-व्यवहारः ॥ १८२ ॥ ---शुषि - तृषि - कृष्यर्तिभ्यः कित् ॥ १८३ ॥ एभ्यः कित् णः प्रत्ययो भवति । घृ सेचने, घृणाकृपा । वीं प्रजननादिषु, वीणावल्लकी । ह्वोंग् स्पर्धाशब्दयोः, हूण:- म्लेच्छजातिः । शुषंच् शोषणे, शुष्णः- निदाघः । उष् दाहे, उष्णः - स्पर्शविशेष: । त्रितृषच् पिपासायाम्, तृष्णा-पिपासा । कृषीत् विलखने, कृष्णः - वर्णः, विष्णुः, मृगश्च । ऋक् गतौ, ऋणं वृद्धिधनम्, जलं, दुर्गभूमिश्च ।। १८३ ॥ द्रो ॥ १८४ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy